________________
पद्मपुराणम् ।
सप्तदशं पर्व। मीने दैत्यगुरुस्तुंगस्तस्मिन्नेव शनैश्चरः । मीनस्यैवोदयोप्यासीत्तदा नृपतिपुंगवः ॥ ३६७ ॥ शनैश्चरं समग्राक्षस्तिन्मभानुनिरीक्षितः । अर्धदृष्टया महीपुत्रो दिवसस्य पतिं तथा ॥ ३६८ ॥ गुरुपादनया दृष्ट्वा पतिमहोऽवलोकते । अर्धदृष्टया गिरामीशं वासरस्येक्षते विभुः ॥ ३६९ ॥ चंद्रसमस्तया दृष्टया वचसां पतिरीक्षते । असावप्येवमेवास्य विदधत्यवलोकनं ॥ ३७० ॥ गुरुः शनैश्चरं पादन्यूनया वीक्षते दृशा । अर्धावलोकनेनासौ भजते वृहतां पतिः ॥ ३७१ ॥ गुरुदैत्यगुरुं दृष्ट्वा वीक्ष्यते पादहीनया | दृष्टिं तथाविधामेव पातयत्येष तत्र च ॥ ३७२ ॥ ग्रहाणां परिशिष्टानां नास्त्यपेक्षा परस्परं । उदयक्षेत्रकालानां बलं चास्ति परं तदा ॥ ३७३ ॥ राज्यं निवेदयंस्तस्य रविभूमौ गुरस्तथा । शनिश्वरः मुयोगित्वं निवेदयति सिद्धिदं ॥ ३७४ ॥ एकोऽपि भारतीनाथस्तुंगस्थानस्थितोऽभवत् । सर्वकल्याणसंप्राप्तो कारणत्वं प्रपद्यते ॥३७५॥ ब्राझो नाम तदा योगो मूहूतेश्च शुभश्रुतिः । एतो कथयतो ब्राह्मस्थानसौख्यसमागमं ॥३७६॥ एवमेतस्य जातस्य ज्योतिश्चक्रामेदं स्थितं । सूचयत्यखिलं वस्तु सर्वदोषविवर्जितं ॥ ३७७ । रंशतनां सहस्रेण कालझं पूजितं ततः । प्रतिसूर्यो विधायोचे भागिनेयीं ससंमदः ॥ ३७८ ।। एहीदानी पुरं यामो वत्से हनूरुहें मम । जातकर्मास्य बालस्य तत्र सर्व भविष्यति ॥ ३७९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org