________________
पद्मपुराणम् ।
४१०
सप्तदर्श पर्व ।
सांत्वयित्वा ततस्तस्या दत्तेनोदकवाहिना । वारिणा क्षालयद्वक्त्रं स्वस्य च प्रतिभास्करः || ३५४ ॥ पारंपर्येण तेनैव ततस्तत्पुनरप्यभूत् । वनं मुक्तमहाशब्दं श्रोतुं वार्तामिवानयोः || ३५५ ।। ततः क्षणमिव स्थित्वा निष्क्रांतौ दुःखगहरात् । अपृच्छतां मिथो वार्ता कुले कथयतां च तौ ॥ संभाषणं ततश्चक्रे तत्स्त्रीणामंजना क्रमात् । स्खलंति न विधातव्ये वनेऽपि गुणिनो जनाः ३५७ जगाद मातुलं चैवं पूज्यजातस्य मेऽखिलं । निवेदय यथावस्थं दिनयोतिः कदंबकं ।। ३५८ ॥ इत्युक्ते पार्श्वगं नाम्ना द्योतिर्गर्भविशारदं । सांवत्सरमपृच्छत्स जातकर्म यथास्थितं ।। ३५९ ॥ ततः सांवत्सरोऽवोचत्कल्याणस्य निवेदय । जन्म संबंधिनीं वेलामित्युक्ते चाख्यदंजना || ३६० || अर्धयामावशेषायां रजन्यामद्य बालकः । प्रजात इति सख्या च कथितं निष्प्रमादया ।। ३६१ ॥ मुहूर्तेन ततोsवाचि यथास्थ च पुराचितं । सुलक्षणैस्तथा मन्ये दारकं सिद्धिभाजनं ॥ ३६२ ॥ तथापि यद्यसंतोषः क्रियेयं लौकिकीति वा । ततः शृणु पुलाकेन कथयाम्यस्य जीवनं ॥ ३६३ || वर्तते तिथिरद्येयं चैत्रस्य वहुलाष्टमी । नक्षत्रं श्रवणः स्वामी वासरस्य विभावसुः ॥ ३६४ ॥ आदित्यो वर्तते मेषे भवनं तुंगमाश्रितः । चंद्रमा मकरे मध्ये भवने समवस्थितः || ३६५ || लोहितांगो वृषमध्यो मध्ये मीने विधोः सुतः । कुलीरे धिषणोऽत्युच्चैरध्यास्य भवनं स्थितः ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org