________________
पद्मपुराणम् ।
४२४
अष्टादशं पर्व।
एषा ते कथिता साकं पुत्रेणाद्भुतकर्मणा । मत्पुरे शीलसंपन्ना तिष्ठतीति विबुध्यतां ॥ १२५ ॥ पुरस्कृत्य ततो वायुं हृष्टा गगनचारिणः । क्षिप्रं हनूरुहं जग्मुरंजनादर्शनोत्सुकाः ॥ १२६ ॥ तेषां महोत्सवस्तत्र समागमकृतोऽभवत् । सुसंवेद्यस्तु दंपत्योर्दुराख्यानो विशेषतः ॥ १२७ ॥ तत्र मासद्वयं नीत्वा खेचराः प्रीतमानसाः। आमंत्र्य लब्धसन्माना ययुःस्थानं यथायथं।।१२८॥ चिरात्संप्राप्तपत्नीकः पवनोऽपि सुचेष्टितः । तत्र गीर्वाणवद्रेमे सुतचेष्टाभिनंदितः ॥ १२९ ॥ हनूमांस्तत्र संप्राप्य यौवनश्रियमुत्तमा । मेरुकूटसमानांगः स्तेनकः सर्वचेतसां ।। १३० ॥ सिद्धविद्यः प्रभावाढ्यो विनयज्ञो महाबलः । सर्वशास्त्रार्थकुशलः परोपकृतिदक्षिणः ॥ १३१॥ नाकोपभुक्तपाकस्य पुण्यशेषस्य योजकः । रमतेस पुरे तत्र गुरुपूजनतत्परः ॥ १३२ ॥ श्रीशैलस्य समुद्भवेन सहितं वायोः समं कांतया । यो भावेन श्रृणोति संगममिमं नानारसैरद्भुतं॥ जतोस्तस्य समस्तसंसृतिविधिज्ञानेन लब्धात्मनो | बुद्धिर्नाशुभकर्मणि प्रभवति प्रारब्ध सत्कर्मणः॥ आयुर्दीर्घमुदारविभ्रमयुतं कांतं वपुर्नीरजं । मेधां सर्वकृतांतपारविषयां कीति च चंद्रामलां ॥ पुण्यं स्वर्गसुखोपभोगचतुरं लोके च यदुर्लभं । तत्सर्वं सुकृदश्रुतेरविरिव स्फूतप्रभामंडलः १३६
इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते पवनांजनासमागमाभिधानं नामाष्टादशं पर्व |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org