SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४२५ Jain Education International अथैकोनविंशति पर्व | रावणोऽथ वहन्दीर्घ क्रोधमप्राप्तनिर्वृत्तिः । अडुढौकत्पुनः सर्वान् खेचरान् लेखहारिभिः ॥ १ ॥ किंष्किधेद्रस्तमभ्यागात्तथा दुंदुभिसंज्ञकः । अलंकाराधिपो यश्व रथनूपुरकस्तथा ॥ २ ॥ विजयार्द्धन गे ये च श्रेणिद्वयनिवासिनः । सर्वोद्योगेन ते सर्वे प्राप्ता रत्नश्रवः सुतं ॥ ३ ॥ अथो हनूरुहद्वीपं नरो मस्तकलेखकः । प्राप्तः पवनवेगस्य प्रतिसूर्यस्य चांतिकं ॥ ४ ॥ लेखार्थमभिगम्यैतौ प्रयाणन्यस्तमानसैौ । श्रीशैलस्योद्यतौ कर्तुमभिषेकं नृपास्पदे ।। ५ ।। कृतस्तदर्थमाटोपः सूर्यशब्दादिको महान् । नराः कलशहस्ताश्च श्रीशैलस्य पुरस्थिताः ॥ ६ ॥ किमेतदिति तौ तेन पृष्टाविदमवोचतां । राज्यं हनूरुहद्वीपे वत्स त्वं पालयाधुना ॥ ७ ॥ युद्धे सहायतां कुर्तुमावामीशेन रक्षसां । आहृतौ तस्य कर्तव्यं प्रीत्यावाभ्यां यथोचितं ॥ ८ ॥ रसातलपुरे तस्य वरुणः प्रत्यवस्थितः । दुर्जयोऽसौ महासैन्यः पुत्रदुर्गवलोत्कटः ॥ ९ ॥ हनूमानेवमुक्तः सन् विययेनेदमब्रवीत् । मयि स्थिते न युक्तं वां गंतुमायोधनं गुरु ॥ १० ॥ अविज्ञातरणास्वादो वत्स त्वमिति भाषिते । जगाद किं शिवस्थानं कदाचिलब्धुमाप्यते ॥ ११ ॥ एकोनविंशति पर्व । For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy