________________
४२६
पद्मपुराणम् ।
एकोनविंशति पर्व। यदा निवार्यमाणोऽपि न स्थातुं कुरुते मनः । तदा ताभ्यामनुज्ञातः स युवा गमनं प्रति ॥१२॥ स्नात्वा भुक्त्वा स पूर्वाह्ने मंगलार्चितविग्रहः । कृतः प्रणामः सिद्धानामहतां च प्रयत्नतः॥१३॥ पितरं मातरं मातुर्मातुलं च महाद्युतिः । प्रणम्याशेषवर्ग च संभाष्य विधिकोविदः ॥ १४ ॥ विमानं सूर्यसंकाशं समारूह्य दिशो दश । व्याप्य शस्त्रसमूहेन ययौ लंकापुरी प्रति ॥ १५ ॥ त्रिकूटाभिमुखो गच्छन्विमानेसावराजत । मंदराभिमुखो यद्वदैशानस्त्रिदशाधिपः ॥ १६ ॥ जलवीचिगिरौ तस्य रविरस्तमुपागमत् । समुद्रवीचिसंतानचुंबितोरुनितंबके ।। १७ ॥ तत्र रात्रि सुखं नीत्वा कृतसद्भटसंकथः । महोत्साहेन सनह्य ययौ लंकाहितेक्षणाः ॥ १८ ॥ नानाजनपदान्द्वीपानगानुर्मिसमाहतान् । ग्रहांश्च जलधौ पश्यन् रक्षःसैन्यमवाप सः ॥१९॥ दृष्ट्वा हनूमतः सैन्यं पुरुराक्षसपुंगवाः । विस्मयं परमं जग्मुः श्रीशैलहितलोचनाः ॥ २० ॥ चूर्णितोऽनेन शैलोऽसौ सोयं भव्यजनोत्तमः । इतिशब्दमसौ शृण्वन् रावणस्य गतांतिकं ॥२१॥ मारुतिं रावणो वीक्ष्य कुसुमैरभिपूरितात् । सौरभाकृष्टसंभ्रांतगुंजन्मत्तमधुव्रतात् ॥ २२ ॥ उपरिन्यस्तरत्नांशुखरितावरमंडपात् । पर्यतस्थितसामंतादभ्युत्तस्थौ शिलातलात् ॥ २३ ॥ परिष्वज्य हनूमंतं विनयानतविग्रहं । उपविष्टः समं तेन तत्र प्रीतिस्मिताननः ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org