________________
पद्मपुराणम् ।
४२७
एकोनविंशति पर्व। अन्योन्यं कुशलं दृष्ट्वान्योन्यस्य संपदं । रेमाते तो महाभाग्यौ देवेंद्राविव संगतौ ॥ २५ ॥ अथावोचद्दशग्रीवः प्रमदान्वितमानसः । हनूमंतं मुहुः पश्यन्नत्यंतस्निग्धया दृशा ।। २६ ॥ अहो संवर्द्धितं प्रेम वायुना मम साधुना । यदयं प्रेषितः पुत्रः प्रख्यातगुणसागरः ।। २७ ।। एनं प्राप्य महासत्त्वं तेजोमंगलभूषितं । नैव मे दुस्तरं किंचिद्भविष्यत्यत्र विष्टपे ॥ २९ ॥ गुणेषु भाष्यमाणेषु श्रीशैलो नतविग्रहः । सत्रीड इव संवृत्तः प्रायो वृत्तिरियं सतां ॥ ३० ॥ भविष्यतोऽथ संग्रामाद्भयेनेव दिवाकरः । अस्तं सेवितुमारेभे मंदारुणकरोत्करः ॥३१॥ संध्यास्य पृष्ठतो यांती वहंती रागमुत्कटं । शुशुभे प्राणनाथस्य विनीता रमणी यथा ॥ ३२ ॥ ततो निशावधू रेजे कृतचंद्रविशेषका । कुर्वाणानुगतिं भर्तुर्वासरस्य निरंतर ॥३३॥ अन्येदुर्भानुभिर्भानोरुज्वले भुवने कृते । दशग्रीवः सुसन्नद्धः समस्तबलमध्यगः ॥ ३४॥ आसन्नस्थहनूमत्कः कृतमंगलविग्रहः । विद्यया जलधिं भित्त्वा प्रयातो वरुणं पुरं ॥३५॥ प्रत्यरि बजतोऽमुष्य दीप्तिरासीदनुत्तमा । कुठारराममुद्दिश्य सुभूमस्येव चक्रिणः ॥ ३६॥ ज्ञात्वा दशाननं प्राप्य सैन्यनिस्वनसूचितं । संचुक्षोभ पुरं सर्व वरुणस्य महारवं ॥३७॥ पातालपौंडरीकाख्यं तत्पुरं प्रवलध्वजं । सुरत्नतोरणं जातं सन्नाहरवसंकुलं ॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org