SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४२८ पद्मपुराणम् । एकोनविंशति पर्व। तत्रासुरपुकारे पुरे सर्वमनोहरे । आसीचकितनेत्राणां स्त्रीणामाकुलता परा ॥ ३९ ॥ योधास्तत्र निराक्रामन् समा भवनवासिनां । चमरासुरतुल्यश्च वरुणः शौर्यगर्वितः ॥४०॥ तस्य पुत्रशतं तावदुत्थितं यो मुद्धतं । नाना प्रहरणत्रातरुद्धभास्करदर्शनं ॥४१॥ आपातमात्रकेणैव भग्नं तै राक्षसं बलं । असुराणामिवोदारैः कुमारैः क्षुद्रदैवतं ॥ ४२ ॥ अंतर्धातशतेनैतद्राक्षसानां बलं क्षतं । गोयूथवदरं चक्रे भ्रमणं भयसंकुलं ॥४३॥ चक्रचापधनप्राशशतमीप्रभृतीनि च । शस्त्राणि रक्षसां पेतुः करात्प्रस्वेदपिच्छलात् ॥४४॥ ततस्तं शरजालेन समालोक्याकुलीकृतं । स्वसैन्यं वेगवद्वर्षहतोरुणकरोपमं ॥ ४५ ॥ विंशत्यर्द्धमुखः क्रुद्धो भित्त्वा रिपुवलं क्षणात् । प्रविष्टः पातयन्वीरान् गजेंद्र इव पादपान् ।।४६॥ ततोऽसौ युगपत्पुत्रैः वरुणस्य समावृतः । आदित्य इव गर्जद्भिः प्रावृषेण्यवलाहकैः ॥४७॥ तस्येशुभिर्वपुर्भिन्नं सर्वदिग्भ्यः समागतैः । तथापि मानिसिंहोऽसौ न मुंचति रणाजिरं ॥ ४८ ॥ भास्करश्रवणः श्रेष्ठो नृणामिंद्रजितस्तथा । अन्ये च रक्षसां नाथा वरुणेनाग्रतः कृताः ॥ ४९ ॥ ततो लक्षीकृतं दृष्ट्वा शराणां वरुणात्मजैः । रावणं शोणितश्रुत्या किंशुकोत्करसन्निभं ॥५०॥ रथमाशु समासा महापुरुषमध्यगं । बंधुवत्प्रीतिचेतस्कः पराजिततमोरविः ॥ ५१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy