________________
पद्मपुराणम् ।
કરવ
एकोनविंशति पर्व ।
मारुतिर्मारुतं वेगाज्जयं जयकृतादरः । उद्यतः कालवद्योद्धुं रविमंडलभासुरः || ५२ ॥ तेन वारुणयः सर्वे प्रेरिताः प्रपलायिताः । महारथसमीरेण घनसंघा इवोन्नता ॥ ५३ ॥ प्रविष्टः परसैन्यं स दृष्टोन्यत्र मुहुर्मुहुः । कदलीकाननच्छेदक्रीडां चक्रेऽरिमूर्तिषु ॥ ५४ ॥ कंचिल्लांगूलपाशेन विद्यारचितमूर्तिना । आकर्षत्परमं वीरं स्नेहेन सुहृदं यथा ।। ५५ ।। कंचिदुल्कासिघातेन मस्तकोपर्यताडयत् । हेतुमुद्गरघातेन मिथ्यादृष्टिरिवार्हतः ॥ ५६ ॥ क्रीडतमिति तं दृष्ट्वा श्रीशैलं वानरध्वजं । अभ्याजगाम वरुणो कोपारुणनिरीक्षणः ॥ ५७ ॥ श्रीशैलाभिमुखं दृष्ट्वा वारुणं राक्षसाधिपः । धावमानं रुरोधारिं गिरिव निम्न गाजलं ॥ ५८ ॥ वरुणास्याभवद्युद्धं यावन्नाथेन रक्षसां । वाजिवारणपादातशस्त्रसंघातसंकुलं ॥ ५९ ॥ तावत्पुत्रशतं तस्य बद्धं पवनसूनुना । चिरंयुद्धसमद्भूतखेदं विहतसैनकं ।। ६० ।। श्रुत्वा पुत्रशतं बद्धं वरुणः शोकविह्वलः । विद्यास्मरणनिर्मुक्तो बभूव श्लथविक्रमः ॥ ६१ ॥ प्राप्यस्य रावणछिद्रं विद्यामुच्छिद्य योधिनीं । जीवग्राहमिमं क्षिप्रं जग्राह रणाकोविदः ॥ ६२ ॥ तदा वरुणयोधस्य भ्रष्टपुत्रकरः श्रियः । उदयेन विमुक्तस्य रावणो राहुतामगात् ॥ ६३ ॥ शस्त्रपंजरमध्यस्थो भग्नमानश्च सोऽर्पितः । सादरं कुंभकर्णस्य रक्षितुं विस्मयेक्षितः ॥ ६४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org