________________
पद्मपुराणम् ।
४३०
एकोनविंशति पर्व ।
1
ततो विश्रमयत्सैन्यं रावणश्वरनिर्वृतः । उद्याने प्रवरे तस्थौ भवनोन्मादनामनि ॥ ६५ ॥ समुद्रासंगशीतेन वायुनास्य व्यनीयत । सैन्यस्य रणजः खेदो वृक्षच्छायानुवर्तिनः ॥ ६६ ॥ गृहीतं नायकं ज्ञात्वा वरुणस्याखिलं बलं । प्रविवेश पुरं भीतं पौंडरीकं समाकुलं ॥ ६७ ॥ तदेव साधनं तावत्त एव च महाभटाः । प्रधानस्य वियोगेन प्रापुर्व्यर्थशरीरतां ॥ ६८ ॥ पुण्यस्य पश्यतौदार्यं यदुद्भवति तद्वति । बहूनामुद्भवः पुंसां पतिते पतनं तथा ॥ ६९ ॥ अथ भास्करकर्णस्तं मध्नातिस्म पुरं रिपोः । विद्दलीभूतनिश्शेषजनसंघातसंकुलं ॥ ७० ॥ लुंटितं चात्र सकलं धनरत्नादिकं भटैः । अरातिपुरकोपेन नतु लोभकशस्थितैः ॥ ७१ ॥ रतिविभ्रमधारिण्यः स्रवदखाकुलेक्षणाः । विलपत्यो वराकाश्च गृह्येतस्म वरांगनाः ॥ ७२ ॥ स्तनावनप्रदेहास्ताश्चलत्पल्लवपाणयः । कूजत्यो बांधवान् सर्वान् गृहीता निष्ठुरैर्नरैः ॥ ७३ ॥ विमानाभ्यंतरन्यस्ता काचिदेवमभाषत । सखीशोकग्रहग्रस्त समस्तास्य निशाकरा ॥ ७४ ॥ सखि शीलविनाशो मे यदि नाम भवेदिह । उल्लेव्यांशुकपटेन मरिष्यामि न संशयः ॥ ७५ ॥ संदिग्धमरणं काचिद् व्याहरंती मुहुः प्रियं । संस्मृत्य तद्गुणान् मूर्छामानछे म्लानलोचना ७६ मातरं पितरं कांतं भ्रातरं मातुलं सुतं । आइयंत्यः क्षरनेत्रास्ता मुनेरपि दुःखदाः ॥ ७७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org