________________
४३१
पद्मपुराणम् ।
एकोनविंशतिपर्व। काचिद्भास्करकिरणस्य शोभया हृतलोचना । जगादोपांशुविसंभात्सवीं कमललोचना ॥ ७८.॥ सखि कापि ममोत्पन्ना दृष्टुतं मुनिपुंगवं । धृतिर्यया कृतेवाहं परायत्तशरीरिका ।। ७९ ॥ इति शुद्धविरुद्धाश्च विकल्पास्तत्र योषितां । बभूवुः कर्मवैचित्र्याल्लोकोऽयं चित्रचेष्टितः ॥८॥ कुवेर इव सद्भूतिः प्रवीरभटसेवितः । जयनिस्वानमुखरः कांतलीलासमन्वितः ॥ ८१ ॥ अवतीर्य विमानांताद्भास्करश्रवणो मुदा । पुरो राक्षसनाथस्य धूसरोष्टीरतिष्ठपत् ॥ ८२ ॥ ता विषादवती दृष्ट्वा वाष्पपूरितलोचनाः । बंधुभीरहिता नम्राः सवेपथुशरीरिका ॥ ८३॥ वदंती करुणं स्वैरं किमपि त्रपयान्विता । रावणःकरुणाविष्टो जगादेति सहोदरं ॥ ८४ ॥ अहोत्यंतमिदं बाल त्वया दुश्चरितं कृतं । कुलनार्यो यदानीता बंदीग्रहणपंजरं ॥ ८५ ॥ दोषः कोऽत्र वराकीणां नारीणां मुग्धचेतसां । खलीकारमिमा येन त्वयि का प्रापिता मुधा ८६ पालिका मुग्धलोकस्य शत्रुलोकस्य नाशिका । गुरु शुश्रूषिणी चेष्टा ननु चेष्टा महात्मनां ॥८७॥ इत्युक्त्वा मोचितास्तेन क्षिप्रा ता ययुरालयं । आश्वासिता गिरा साध्व्यः सद्यः शिथिलसाध्वसा८८ आनाय्य वरुणोऽवाचि रावणेनाथ सत्रपः । भटदर्शनमात्रेण कृतरक्षोनताननः ॥ ८९ ॥ प्रवीण माकृथाः शोकं युद्धग्रहणसंभव । ग्रहणं ननु वीराणां रणे सत्कीर्तिकारणं ।। ९० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org