________________
पद्मपुराणम् ।
एकोनविंशति पर्व |
द्वयमेव रणे वीरैः प्राप्यते मानशालिभिः । ग्रहणं मरणं वापि कातरैश्च पलायितुं ॥ ९१ ॥ पुरावदखिलं स त्वं राज्यं रक्ष निजे पदे । मित्रबांधव संपन्नः सकलोपद्रवोज्झितं ॥ ९२ ॥ अथैवमुक्तो वरुणः स वीरं । कृत्वांजलिं प्रावददेतमेव ॥
४३२
विशाल पुण्यस्य तवात्र लोके । मूढो जनो तिष्ठति वैरभावे ॥ ९३ ॥ अहो महद्धैर्यमिदं त्वदीयं । मुनेरिव स्तोत्रसहस्रयोग्यं ॥
विहाय रत्नानि पराजितोहं । त्वया यदभ्युन्नतशासनेन ॥ ९४ ॥ वायोःसुतस्यैव कथं प्रभावो । निगद्यतामद्भुतकर्मणोऽपि ॥
यतस्त्वदीयेन शुभेन साधो । समाहितः सोऽपि महानुभावः ।। ९५ ॥ न कस्यचिन्नाम महीयमेतां । गोत्रक्रमाद्विक्रमकोशधारिता ||
वीरस्य भोग्येयमसौ भवांश्च । तेषां स्थितो मूर्धनि साधि लोकं ।। ९६ ।। स्वामी त्वमस्माकमुदारकीर्ते । क्षमस्व दुर्वाक्यकृतं निकारं ॥ वक्तव्यमित्येव वदामि नाथ । क्षमा तु दृष्टैव तवात्युदारा ॥ ९७ ॥ तेन त्वया सार्धमहं विधाय | संबंधमत्युन्नतचेष्टितेन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org