Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 480
________________ पद्मपुराणम् । ४७१ एकविंशतितमं पर्व। इत्युक्त्वा बांधवान् सर्वानापृच्छच विगतस्पृहः । दत्वा पुरंदरे राज्यं राजा जर्जरविग्रहः १३८ पार्श्वनिर्वाणघोषस्य निर्ग्रथस्य महात्मनः । सुरेंद्रमन्युना साधे प्रवव्राज महामनाः ॥ १३९ ॥ पुरंदरस्य तनयमसूत पृथिवीमती । भार्या कीर्तिधराभिख्यं विख्यातगुणसागरं ॥ १४०॥ क्रमेण स परिप्राप्तो यौवनं विनयाधिकः । एधयन् सर्वबंधूनां प्रसादं चारुचेष्टया ॥ १४१॥ कौशलस्थनरेंद्रस्य वृता तस्मै शरीरजा । सुतमुद्वाह्य तां गेहान्निश्चक्राम पुरंदरः ॥ १४२ ॥ क्षेमंकरमुनेः पार्श्वे प्रव्रज्य गुणभूषणः । तपः कर्तुं समारेभे कर्मनिर्जरकारणं ॥ १४३ ॥ कुलक्रमागतं राज्यं पालयन् जितशात्रवः । रेमे देवोत्तमै गैः सुखं कीर्तिधरो नृपः ॥ १४४ ॥ अथान्यदा कीर्तिधरः क्षितीश्वरः । प्रजासु बंधुः कृतभीररातिषु ।। सुखासनस्थो भवने मनोरमे । विराजमानो नलकूवरो यथा ॥ १४५ ॥ निरीक्ष्य राहक्षयनीलतेजसा । तिरोहितं भास्करभासमंडलं ॥ अचिंतयत्कष्टमहो न शक्यते । विधिनिनेतुं प्रकटीकृतोदयः ॥ १४६ ॥ उत्सार्य यो भीषणमंधकारं । करोति निष्कांतिकर्मिदुबिंबं । असौ रविः पनवनप्रबोधः । स्वर्भानुमुत्सारयितुं न शक्तः ॥ १४७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522