Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
चतुविंशतितम पर्व। बहुनात्र किमुक्तेन श्रृणु राजन् समासतः । तस्य वर्षशतेनापि दुश्शक्यं रूपवर्णनं ।। ८५ ।। पित्रा प्रधारितं तस्या योग्यः कोस्या भवेद्वरः । स्वयं रुचितमेवेयं गृह्णात्विति विसंशयं ॥८६॥ यदर्थ पार्थिवाः सर्वे वसुमत्यामुपाहृताः । हरिवाहननामाद्याः पुरोविभ्रमभूषिताः ॥ ८७॥ गतो दशरथोप्यस्य जनकेन सह भ्रमन् । स्थितं स तादृशोप्येतान् लक्ष्या प्रच्छाद्य भूपतीन् ८८ मंचेषु सुप्रपंचेषु निविष्टान् वसुधाधिपान् । प्रत्येकमैक्षितोदारान् प्रतीहार्या निवेदितान् ।।८९॥ भ्राम्यंती सा ततः साध्वी नरलक्षणपंडिता । कंठे दाशरथे न्यास दृष्टिनीलोत्पलस्रजं ॥९० ॥ भूपालनिवहस्थं तं सा ययौ चारुविभ्रमा । राजहंसं यथा हंसी वकवृंदव्यवस्थितं ॥ ९१ ॥ भावमालागृहीतेऽस्मिन् न्यस्ता या द्रव्यमालिका । पौनरुक्त्यं प्रपेदेसी लोकाचारकृतास्पदा ९२ केचित्तत्र जगुस्तारं प्रसन्नमनसो नृपाः । अहो योग्यो वृतः कोऽपि पुरुषोऽयं सुकन्यया ॥९३॥ केषांचित्त्वतिवैलक्ष्यात्स्वदेशगमनं प्रति । विररामातिदृरेण मनोवैवर्ण्यमीयुषां ॥ ९४ ॥ केचिदत्यंतधृष्टत्वात्परमं कोपमागताः । युद्धं प्रति मनश्चक्रुः कृतकोलाहला भृशं ॥ ९५ ॥ जगुश्च ख्यातसद्वंशान् महाभोगसमन्वितान् । त्यक्त्वातो गृह्णतीमेतमज्ञातकुलशीलिनं ॥९६ ॥ अK कमपि वैदेशं दुरभिप्रायकारिणीं । गृहीतमूर्द्धजाकृष्टां प्रसमं दुष्टकन्यकां ॥ ९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522