Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 509
________________ चतुर्विंशतितमं पर्व | लोहदंतजतुक्षारशिल|स्तत्रादिसंभवं । तथोपकरणं कर्तुं ज्ञातमत्यंतमुद्यया ॥ ५९ ॥ देश तुला कारभेदान्मानं चतुर्विधं । तत्र प्रस्थादिभिर्भिन्नं मेयमानं प्रकीर्तितं ६० ॥ दिशमानं वितस्त्यादि तुलामानं पलादिकं । समयादि तु यन्मानं तत्कालस्य प्रकीर्तितं ॥ ६१ ॥ तच्चारोहपरीणाहतिर्यग्गौरवभेदतः । क्रियातश्च समुत्पन्नं साध्यगात्मानमुत्तमं ॥ ६२ ॥ भूतिकर्म निधिर्ज्ञानं रूपज्ञानं वणिग्विधिं । अन्यथा जीवविज्ञानमासीत्तस्याविशेषवत् ॥ ६३ ॥ मानुषद्विपगोवाजिप्रभृतीनां चिकित्सितं । सा निदानादिभिर्भेदं युक्तं ज्ञातवती परं ॥ ६४ ॥ मायाकृतं त्रिधा पीडा शक्रजालं विमोहनं । मंत्रौषधादिभिर्जातं तच्च सर्वं विवेद सा ।। ६५ ।। समयं च समीज्यादिपाखंडपरिकल्पितं । चारित्रेण पदार्थैश्च विवेद विविधैर्युतं ॥ ६६ ॥ चेष्टोपकरणा वाणी कलाव्यत्यसनं तथा । क्रीडा चतुर्विधा प्रोक्ता तत्र चेष्टा शरीरजा ||६७ || कंदुकादिति विज्ञेयं तत्रोपकरणं बहु । वाक्क्रीडनं पुनर्नाना सुभाषितसमुद्भवं ॥ ६८ ॥ नाना दुरोदरन्यासं कलव्यत्यसनं स्मृतं । क्रीडायां बहुभेदायामस्यां सात्यंतकोविदा ॥ ६९ ॥ आश्रिताश्रयतो भिन्नो लोको द्विविध उच्यते । आश्रिता जीवनिर्जीवा पृथिव्यादिस्तदाश्रया ७० तत्र नानाभवोत्पत्तिःस्थितिर्नश्वरता तथा । ज्ञायते यदिदं प्रोक्तं लोकज्ञत्वं सुदुर्गमं ॥ ७१ ॥ पद्मपुराणम् । Jain Education International ५०० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522