Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
५१०
पंचविंशतितमं पर्व |
पितृभ्यां भवनादेष निर्विण्णाभ्यां निराकृतः । ययौ राजगृहं दुःखी वसानः कर्षटद्वयं ॥ ४५ ॥ तत्र वैवस्वतो नाम धनुर्वेदातिपंडितः । युक्तः सहस्रमात्रेण शिष्याणामभियोगिनां ॥ ४६ ॥ यथावत्तस्य पार्श्वसौ धनुर्विद्यमुपागमत् । जातः शिष्यसहस्राच्च दूरेणाधिक कौशलः ॥ ४७ ॥ श्रुतं कुशाग्रराजेन मत्सुतेभ्योऽपि कौशलं । वैदेशे कापि विन्यस्तमिति ज्ञात्वा रुपं गतः ॥ ४८ ॥ श्रुत्वा च स्वामिनं क्रुद्धमस्त्राचार्येण शिष्यतः । एवमेरो यथा राज्ञः पुरः कुंठो भविष्यति ॥ ४९ ॥ स समाहयितः शिष्यैः सूतोऽसौ विभुना नृणां । शिक्षां पश्यामि सर्वेषां छात्राणामिति चोदितः ५० तत तेवासिनस्तेन क्रमेण शरमोचनं । कारिता लक्षपातं च सर्वे चक्रुर्यथायथं ॥ ५१ ॥ अथैरोऽपि स निर्युक्तः शरान् चिक्षेप तादृशान् । दुःशिक्षित इति ज्ञातो विभुना तेन यादृशैः ५२ farari सर्वां राज्ञा संप्रेषितो गतः । अस्त्राचार्यः स्वकं धाम शिष्यमंडलमध्यगः ||५३|| वैवस्वतसुतामैरः स्वीकृत्य गुरुसम्मतां । रात्रौ पलायनं कृत्वा प्राप दाशरथीं पुरीं ॥ ५४ ॥ ढौकितश्वानरण्ये स्वं कौशलं च न्यवेदयत् । राज्ञा समर्पिता तस्मै तुष्टेन तनुसंभवाः ।। ५५ ।। तेष्वस्त्रकौशलं तस्य संभ्रांतं स्फीततां गतं । सरःसु सुप्रसन्नेषु चंद्रबिंबमिवागतं ।। ५६ ।। अन्यानि च गुरुप्राप्त्या विज्ञानानि प्रकाशितां । यातानि तेषु रत्नानि पिधानापगमादिव ५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 517 518 519 520 521 522