Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
पंचविंशतितम पर्व। छिंदताविव दारिद्रयमाहूतागमकारिणौ । तर्पयंताविव स्वांतं सर्वेषामनुकूलतः ॥ ३२ ॥ प्रसादसम्मदौ साक्षादिव देहमुपागतौ । रेमाते तो सुखं पुर्या कुमारौ कृतरक्षणौ ॥ ३३ ॥ विजयश्च तृपिष्टश्च यथापूर्व बभूवतुः । तत्तुल्यचेष्टितावेवं कुमारौ तावशेषतः ॥ ३४ ॥ तनयं केकयासूत दिव्यरूपसमन्वितं । यो जगाम महाभाग्यो भुवने भरतश्रुति ॥ ३५ ॥ सुषुवे सुप्रभा पुत्रं सुंदरं यस्य विष्टपे । ख्यातेः शत्रुघ्रशब्देन सकलेद्यापि वर्तते ॥ ३६ ॥ वलनामापरं मात्रा पद्मस्येति विनिर्मितं । सुमित्रया हरिनाम तनयस्य महेच्छया ॥ ३७॥ कृतोर्धचक्रिनामायां मात्रेति भरतभिधां । दृष्ट्वा चक्रिणि संपूर्णे केकया प्रापयत्सुतं ॥ ३८ ॥ चक्रवर्तिध्वनि नीतो मात्रायमिति सुप्रजाः । तनयस्याहतो नाम शत्रुघ्नं इति निर्ममे ॥ ३९ ॥ समुद्रा इव चत्वारः कुमारास्ते नया इव । दिग्विभागा इवोदारा बभूवुजेगतः प्रियाः ॥ ४० ॥ ततः कुमारकान् दृष्टा विद्यासंग्रहणोचितान् । दध्यौ योग्यमुपाध्यायं पितैषां मनसाकुलः ॥४१॥ अथास्ति नगरं नाना कांपिल्यमिति सुंदरं । भार्गवोत्र शिखी ख्यातस्तस्येषुरिति भामिनी ४२ एरिरूढिस्तयोः पुत्रो दुर्विनीतो विलालितः । उपालंभसहस्राणां कारणीभूतचेष्टितः ॥ ४३ ॥ द्रविणोपार्जनं विद्याग्रहणं धर्मसंग्रहः । स्वाधीनमपि तत्प्रायो विदेशे सिद्धमश्नुते ॥ ४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 516 517 518 519 520 521 522