Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
पंचविंशतितमं पर्व |
अथानेहसि संपूर्णे पूर्णेदुरिव पूर्वदिक । असूत तनयं कांत्या विशालमपराजिता ॥ १९ ॥ दिष्ट्या वर्धनकारिभ्य प्रयच्छन् वसु पार्थिवः । बभूव चामरच्छत्र परिधानपरिच्छदः ।। २० ।। जन्मोत्सवं महानस्य चक्रे निश्शेषबांधवैः । महाविभवसंपन्नैरुन्मत्तीभूतविष्टपः ॥ २१ ॥ तरुणादित्यवर्णस्य पद्मालिंगितवक्षसः । पद्मनेत्रस्य पद्माख्या पितृभ्यां तस्य निर्मिता ।। २२ ।। सुमित्रापि ततः पुत्रमनूत परमद्युतिं । छायादिगुणयोगेन सद्रत्नं रत्नभूरिव ॥ २३ ॥ पद्मजन्मोत्सवस्यानुसंधानमिव कुर्वता । जनितो बंधुवर्गेण तस्य जन्मोत्सवः परः ॥ २४ ॥ उत्पाता जज्ञिरेऽरातिनगरेषु सहस्रशः । आपदां सूचका बंधुनगरेषु च संपदां ॥ २५ ॥ प्रौदीवरगर्भाभः कांतिवारिकृतप्लवः । सुलक्ष्म्या लक्ष्मणाख्यायां पितृभ्यामेव योजितः ॥ २६ ॥ मनोज्ञरूपौ तौ विद्रुमाभरदच्छदौ । रक्तोत्पलसमच्छायपाणिपादौ सुविभ्रमौ ॥ २७ ॥ नवनीतसुखस्पर्शो जातिसौरभधारिणौ । कुर्वाणौ शैशवीं क्रीडां चेतः कस्य न जहूतुः ॥ २८ ॥ चंदनद्रवदिग्धांगौ कुंकुमस्थासकांचितौ । सुवर्णरससंपृक्तरजतांजनकोपमौ ।। २९ ॥ अनेकजन्मसंवृद्धस्नेहान्योन्यवशानुगौ । अंतःपुरगतौ सर्वबंधुभिः कृतपालनौ ॥ ३० ॥ विच्छर्दमिव कुर्वाणावमृतेन कृतस्वनौ । मुखपंकेन लिपताविव लोकं विलोकनात् ।। ३१ ।
Jain Education International
५०८
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 515 516 517 518 519 520 521 522