SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । पंचविंशतितमं पर्व | अथानेहसि संपूर्णे पूर्णेदुरिव पूर्वदिक । असूत तनयं कांत्या विशालमपराजिता ॥ १९ ॥ दिष्ट्या वर्धनकारिभ्य प्रयच्छन् वसु पार्थिवः । बभूव चामरच्छत्र परिधानपरिच्छदः ।। २० ।। जन्मोत्सवं महानस्य चक्रे निश्शेषबांधवैः । महाविभवसंपन्नैरुन्मत्तीभूतविष्टपः ॥ २१ ॥ तरुणादित्यवर्णस्य पद्मालिंगितवक्षसः । पद्मनेत्रस्य पद्माख्या पितृभ्यां तस्य निर्मिता ।। २२ ।। सुमित्रापि ततः पुत्रमनूत परमद्युतिं । छायादिगुणयोगेन सद्रत्नं रत्नभूरिव ॥ २३ ॥ पद्मजन्मोत्सवस्यानुसंधानमिव कुर्वता । जनितो बंधुवर्गेण तस्य जन्मोत्सवः परः ॥ २४ ॥ उत्पाता जज्ञिरेऽरातिनगरेषु सहस्रशः । आपदां सूचका बंधुनगरेषु च संपदां ॥ २५ ॥ प्रौदीवरगर्भाभः कांतिवारिकृतप्लवः । सुलक्ष्म्या लक्ष्मणाख्यायां पितृभ्यामेव योजितः ॥ २६ ॥ मनोज्ञरूपौ तौ विद्रुमाभरदच्छदौ । रक्तोत्पलसमच्छायपाणिपादौ सुविभ्रमौ ॥ २७ ॥ नवनीतसुखस्पर्शो जातिसौरभधारिणौ । कुर्वाणौ शैशवीं क्रीडां चेतः कस्य न जहूतुः ॥ २८ ॥ चंदनद्रवदिग्धांगौ कुंकुमस्थासकांचितौ । सुवर्णरससंपृक्तरजतांजनकोपमौ ।। २९ ॥ अनेकजन्मसंवृद्धस्नेहान्योन्यवशानुगौ । अंतःपुरगतौ सर्वबंधुभिः कृतपालनौ ॥ ३० ॥ विच्छर्दमिव कुर्वाणावमृतेन कृतस्वनौ । मुखपंकेन लिपताविव लोकं विलोकनात् ।। ३१ । Jain Education International ५०८ For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy