________________
पद्मपुराणम।
५०७
पंचविंशतितमं पर्व । कृतांजलिर्जगौ स्वप्नान किंचिद्विनतविग्रहा । स्वामिने सावधानाय यथा दृष्टान्मनोहरान् ॥६॥ ततो निखिलविज्ञानपारदृश्वा नराधिपः । बुधमंडलमध्यस्थः स्वप्नानामभ्यधात्फलं ॥७॥ परमाश्चर्यहेतुस्ते कांते पुत्रो भविष्यति । अंतर्बहिश्च शत्रूणां यः करिष्यति शातनं ॥८॥ एवमुक्ते परं तोषं हस्तस्पृष्टोदरी ययौ । मुखकेसरसंरुद्धमुखपद्मापराजिता ॥९॥ चकार च समं भ; परं प्रमदमीयुषा । जिनेंद्रवेश्मसुस्फीतां पूजां पूजितभावना ॥ १० ॥ ततः प्रभृतिकात्यासौ सुतरां स्मावगाह्यते । बभूव चेतसश्वास्याः शांतिः कापि महौजसः॥११॥ सुमित्रानंतरं तस्या ईक्षांचक्रे तिसुंदरी । विस्मिता पुलकोपेता स्वप्नान साधुमनोरथा ॥१२॥ सिच्यमानं मृगाधीशं लक्ष्म्या कीर्त्या च सादरं । कलशैश्चवमानास्य कमलैश्चारुवारिभिः ॥१३॥ आत्मानं चातितुंगस्य भूभृतो मूर्धनि स्थितं । पश्यंतं मेदिनी स्फीतां निम्नगापतिमेखलां ॥१४॥ स्फुरत्किरणजालं च दिवसाधिपविभ्रमं । नानारत्नोचितं चक्रं सौम्यं कृतविवर्तनं ॥ १५ ॥ वीक्ष्य मंगलनादेन तथैव कृतबोधना । विनीताऽकथयत्पत्ये नितांतं मधुरस्त्रना ॥ १६ ॥ सूनुर्युगप्रधानं ते शत्रुचक्रक्षयावहः । भविष्यति महातेजाश्चित्रचेष्टो वरानने ॥ १७ ॥ इत्युक्ता सा सती पत्या संमदाक्रांतमानसा । ययौ निजास्पदं लोकं पश्यंतीवाधरस्थितं ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org