Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
४९९
चविंशतितमंपर्व।
रणप्रवोधनव्यूहसंयोगादिभिरन्वितं । तद्विधातुमलं प्राज्ञा साज्ञासीत्पूरणादिजं ॥ ४६ ॥ योनिद्रव्यमधिष्ठानं रसो वीर्यं च कल्पना । परिकर्म गुणा दोषा युक्तिरेषा तु कौशलं ॥ ४७ ॥ योनिविशिष्टमूलादि द्रव्यं तु तगरादिकं । यद्वर्णवर्तिकाद्येतदधिष्ठानं प्रकीर्तितं ॥४८॥ कषायो मधुरस्तिक्तः कटुकाम्लश्च कीर्तितः । रसः पंचविधो यस्य निर्हारेण विनिश्चयः ॥४९॥ द्रव्याणां शीतमुण्णं च वीर्य तत्र द्विधा स्मृतं । कल्पनात्र विवादानुवादसंवादयोजनं ॥ ५० ॥ परिकर्म पुनः स्नेहशोधनक्षालनादिकं । ज्ञानं च गुणदोषाणां पाटवादीतरात्मनां ॥५१॥ स्वतंत्रानुगताख्येन तां भेदेन समन्वितां । गंधयुक्तिमसौ सर्वामजानडुक्तविभ्रमा ॥ ५२ ॥ भक्ष्यं भोग्यं च पेयं च लेह्यं चूष्यं च पंचधा । आस्वाद्यं तत्र भक्ष्यं तु कृत्रिमाकृत्रिमं स्मृतं ५३ भोग्यं द्विधा यवाग्वादिविशेषाश्चोदनादयः । शीतयोगो जलं मद्यमिति पेयं त्रिधोदितं ॥५४॥ रागखांडवलेह्याख्यं लेह्य त्रिविधमुच्यते । कृत्रिमाकृत्रिमं चूष्यं द्विविधं परिकीर्तितं ।। ५५ ॥ पाचनच्छेदनोष्णत्वशीतत्वकरणादिभिः । युक्तमास्वाद्यविज्ञानमासीत्तस्या मनोहरं ॥ ५६ ॥ वज्रमौक्तिकवैडूर्यसुवर्णरजतायुधं । वस्त्रसंखादि चावेदीत्सा रत्नं लक्षणादिभिः ।। ५७ ॥ तंतुसंतानयोगं च वस्त्रस्य बहुवर्णकं । रागाधानं च सा चारु विवेदातिशयान्वितं ॥ ५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522