Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 514
________________ ५०५ चतुर्विंशतितमं पर्व । अशेषभयनिर्मुक्तो रेमे तत्र स पुण्यवान् । आखंडल इव स्वर्गे प्रतिमानितशासनः ॥ १२४ ॥ तत्र प्रत्यक्षमन्यासां पत्नीनां भूभृतां तथा । अभ्यधायि नरेंद्रेण केकयासन्नवर्तिनी ॥ १२५ ॥ पूर्णेदुवदने ब्रूहि यत्ते वस्तु मनीषितं । इह संपादयाम्यद्य प्रसन्नोऽस्मि तव प्रिये ।। १२६ ।। चोदयेनादिविज्ञानाद्यदि नाम तथा रथं । कथं क्रुद्धारिसंघातं विजयेहं सहोत्थितं ॥ १२७ ॥ अवस्थितं जगद्व्याप्यं नुदेदर्कः कथं तमः । संवेष्टा चेद्भवेदस्य न मूर्तिररुणात्मिका ।। १२८ ।। गुणग्रहणसंघातव्रीडाभारनतानना । मुहुः प्रचोदितोवाच कथंचिदिति केकया ।। १२९ ।। नाथ न्यासोयमास्तां मे त्वयि वांछितयाचनं । प्रार्थयिष्ये यदा तस्मिन् काले दास्यसि निर्वचाः ॥ इति प्रोक्तमात्रे जगौ भूमिनाथः । समग्रेदुनाथ प्रतिस्पर्द्धिवक्त्रः ॥ भवत्वेवमुद्ये पृथुश्रोणिसौम्ये । त्रिवर्णातिकां तप्रसन्नोरुनेत्रे ॥ १३१ ॥ अहो बुद्धिरस्या महीगोत्रजाया । नयाढचा नितांतं कलापारगायाः || समस्त|पभोगैरलं संगताया । कृतं न्यासभूतं मनःप्रार्थनं यत् ।। १३२ ।। समस्तोsपि तस्यास्तदाभीष्टवर्गः । प्रयातः प्रमोदं प्रकृष्टं नितांतं ॥ विचिंत्य प्रधानं शुभा कंचिदर्थं । शनैर्मार्गयिष्यत्यहो केकयेति ॥ १३३ ॥ पपुराणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522