Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
एकविंशतितम पर्व। परमोत्साहसंपन्नाः प्रणम्य मुनिपुंगवं । षडिंशतिरमा तेन राजपुत्राः प्रवव्रजुः ॥ १२५ ॥ तमुदंतं परिज्ञाय सोदरस्नेहकातरा । वहंती पुरुसंवेगमदीक्षिष्ट मनोदया ॥ १२६ ॥ सितांशुकपरिच्छन्नविशालस्तनमंडला । अल्पोदरी मलच्छन्ना जाता सातितपस्विनी ॥ १२७ ॥ विजयस्यंदिनो वार्ता विदित्वा वज्रवाहवीं । शोकार्दितो जगादैवं सभामध्यव्यवस्थितः १२८ चित्रं पश्यत मे नप्ता वयसि प्रथमे स्थितः । विषयेभ्यो विरक्तात्मा दीक्षां दैगंबरीमितः ॥१२९॥ मादृशोऽपि सुदुर्मोचैर्वर्षीयान् प्रवणीकृतः । भोगैर्यैस्ते कथं तेन कुमारेण विवर्जिताः ॥१३० ॥ अथवानुगृहीतोसौ भाग्यवान् मुक्तसंपदा। भोगान् यस्तृणवत्यक्त्वा शीतीभावे व्यवस्थितः१३१ मंदभाग्योधुना चेष्टां कां व्रजामि जरार्दितः । सुचिरं वंचितः पापैर्विपयैर्मुखसुंदरैः ॥ १३२ ॥ इंद्रनीलांशुसंघातसंकाशो योऽभवत्कथं । केशभारः स मे जातः काशराशिसमद्युतिः ॥ १३३ ॥ सितासितारुणच्छाये नेत्रे ये जनहारिणी । जाते संप्रति ते सुभ्रूवलीछन्नसुवर्मनी ॥ १३४ ॥ प्रभासमुज्वलः कायो योयमासीन्महाबलः । जातः संप्रत्यसौ वर्षाहतचित्रसमच्छविः॥ १३५ ॥ अर्थो धर्मश्च कामश्च त्रयस्ते तरुणोचिताः । जरापरीतकायस्य दुष्कराः प्राणधारिणः ॥१३६॥ धिग्मामचेतनं पापं दुराचारं प्रमादिनं । अलीकबांधवस्नेहसागरावर्तवर्तिनं ॥ १३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522