Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
द्वाविंशतितम पर्व। रणे विजित्य तान् सर्वान् सिंहिकातिप्रतापिनी । स्थापयित्वा दृढं स्थाने रक्षमाप्ततरं नृपं ११६ सामंतैर्निर्जितैः सार्द्ध जेतुं शेषानराधिपान् । जगाम दक्षिणामाशां शस्त्रशास्त्रकृतश्रमाः॥११७॥ प्रतापेनैव निर्जित्य सामंतान् प्रत्यवस्थितान् । आजगाम पुरीं राज्ञी जयनिस्वनपूरिता ॥११८॥ नघुषोप्युत्तरामाशां वशीकृत्य समागतः । कोपं परममापन्नः श्रुतदारपराक्रमः ॥ ११९ ॥ . अविखंडितशीलाया नेदृग्धीटकुलस्त्रियः। भवतीति विनिश्चित्य सिंहिकायां व्यरज्यत ॥१२०॥ महादेवीपदात्साथ च्याविता साधुचेष्टिता । महादरिद्रतां प्राप्ता कालं कंचिदवस्थिता ॥१२१॥ अन्यदाथ महादाहज्वरोभूत्पृथिवीपते । सर्ववैद्यप्रयुक्तानामौषधीनामगोचरः ॥ १२२ ॥ सिंहिका तं तथाभूतं ज्ञात्वा शोकसमाकुला । स्वं च शोधयितुं साध्वी क्रियामेतां समाश्रिता ॥१२३॥ समाहूयाखिलान् बंधून सामंतान् प्रकृतीस्तथा । करे कोशं समादाय वारिदत्तं पुरोधसा॥१२४॥ जगाद यदि मे भर्ता नान्यश्चेतस्यपि स्थितः । ततः सिक्कोंबुनानेन राजास्तु विगतज्वरः ॥१२५।। ततोऽसौ सिक्तमात्रेऽस्मिन् तत्करोदकशीकरे । दंतवीणाकृतस्थानो हिममग्न इवाभवत् ॥१२६॥ साधु साध्विति शब्देन गगनं परिपूरितं । अदृष्टजननिमुक्तैदृष्टं सुमनसा चयैः ॥ १२७॥ इति तां शीलसंपन्नां विज्ञाय नरपुंगवः । महादेवीपदे भूपः कृतपूजामतिष्ठिपत् ॥ १२८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522