Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 494
________________ पद्मपुराणम् । ४८५ द्वाविंशतितम पर्व। अनुभूय चिरं भोगान तया सार्धमकंटकः । निश्शोषपूर्वजाचारं कृत्वा मनसि निस्पृहः ॥१२९॥ संभूतं सिंहिकादेव्यां सुतं राज्ये नियाय स । जगाम पदवीं धीरो जनकेन निषेवितां ॥ १३० ।। नघुषस्य सुतो यस्मात्सुदासीकृतविद्विषः । सौदास इति तेनासौ भुवने परिकीर्तितः ॥ १३२ ॥ तस्य गोत्रे दिनान्यष्ट चतुर्वासीसमाप्तिषु । भुक्तं न केनचिन्मांसमपि मांसैधितात्मना ॥१३२॥ कर्मणस्त्वशुभस्यास्य कस्यापि समुदीरणात् । बभूव खादितुं मासं तेष्वेव दिवसेषु धीः ॥१३३।। ततोनेन समाह्वाय सूदः स्वैरमभाष्यत । मांसमत्तुं समुत्पन्ना मम भद्राद्य धीरिति ।। १३४॥ तेनोक्तो देव जानासि दिनेष्वेतेष्वमारणं । जिनपूजासमृद्धेषु समस्तायामपि क्षितौ ॥ १३५ ॥ नृपेणोचे पुनः सूदो म्रियेद्य यदि नामि तत् । इति निश्चित्य यद्युक्तं तदाचर किमुक्तिभिः॥१३६।। तदवस्थं नृपं ज्ञात्वा पुरात्सूदो बहिर्गतः । ददर्श मृतकं बालं तद्दिने परिखोज्झितं ॥ १३७ ॥ तं वस्त्रावृत्तमानीय संस्कृत्य स्वादुवस्तुभिः । नरेंद्राय ददावतुं मन्यसे मुख्यगोचरं ॥ १३८ ॥ महामांसरसास्वादनितांतप्रीतमानसः । भुक्त्वोत्थितो मिथः सूदं स जगाद सविस्मयः ॥१३९॥ वद भद्र कुतः प्राप्त मांसमेतत्त्वयेदृशं । अनास्वादितपूर्वोयं रसो यस्यातिपेशलः ॥ १४० ॥ सोऽभयं मार्गयित्वास्मै यथावद्विन्यवेदयत् । ततो राजा जगादेदं सर्वथा क्रियतामिति ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522