________________
पद्मपुराणम् ।
४८५
द्वाविंशतितम पर्व। अनुभूय चिरं भोगान तया सार्धमकंटकः । निश्शोषपूर्वजाचारं कृत्वा मनसि निस्पृहः ॥१२९॥ संभूतं सिंहिकादेव्यां सुतं राज्ये नियाय स । जगाम पदवीं धीरो जनकेन निषेवितां ॥ १३० ।। नघुषस्य सुतो यस्मात्सुदासीकृतविद्विषः । सौदास इति तेनासौ भुवने परिकीर्तितः ॥ १३२ ॥ तस्य गोत्रे दिनान्यष्ट चतुर्वासीसमाप्तिषु । भुक्तं न केनचिन्मांसमपि मांसैधितात्मना ॥१३२॥ कर्मणस्त्वशुभस्यास्य कस्यापि समुदीरणात् । बभूव खादितुं मासं तेष्वेव दिवसेषु धीः ॥१३३।। ततोनेन समाह्वाय सूदः स्वैरमभाष्यत । मांसमत्तुं समुत्पन्ना मम भद्राद्य धीरिति ।। १३४॥ तेनोक्तो देव जानासि दिनेष्वेतेष्वमारणं । जिनपूजासमृद्धेषु समस्तायामपि क्षितौ ॥ १३५ ॥ नृपेणोचे पुनः सूदो म्रियेद्य यदि नामि तत् । इति निश्चित्य यद्युक्तं तदाचर किमुक्तिभिः॥१३६।। तदवस्थं नृपं ज्ञात्वा पुरात्सूदो बहिर्गतः । ददर्श मृतकं बालं तद्दिने परिखोज्झितं ॥ १३७ ॥ तं वस्त्रावृत्तमानीय संस्कृत्य स्वादुवस्तुभिः । नरेंद्राय ददावतुं मन्यसे मुख्यगोचरं ॥ १३८ ॥ महामांसरसास्वादनितांतप्रीतमानसः । भुक्त्वोत्थितो मिथः सूदं स जगाद सविस्मयः ॥१३९॥ वद भद्र कुतः प्राप्त मांसमेतत्त्वयेदृशं । अनास्वादितपूर्वोयं रसो यस्यातिपेशलः ॥ १४० ॥ सोऽभयं मार्गयित्वास्मै यथावद्विन्यवेदयत् । ततो राजा जगादेदं सर्वथा क्रियतामिति ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org