________________
पद्मपुराणम् ।
४८६
द्वाविंशतितमं पर्व |
सूदोथ दातुमारब्धः शिशुवर्गाय मोदकान् । शिशवस्तत्प्रसंगेन प्रत्यहं तं समाययुः ॥ १४२ ॥ गृहीत्वा मोदकान् यातान् शिशूनां पश्चिमं ततः । मारयित्वा ददौ सूदो राज्ञे संस्कृत्य संततं ॥ १४३ ॥ प्रत्यहं क्षीयमाणेषु पौरवालेषु निश्चितः । सूदेन सहितो राजा देशात्परैर्निराकृतः ॥ १४४ ॥ कनकाभासमुत्पन्नस्तस्य सिंहरथः सुतः । राज्येऽवस्थापितः पौरैः प्रणतः सर्वपार्थिवैः ॥ १४५ ॥ महामांसरसासक्तः सौदासो जग्ध सूदकः । बभ्राम धरणीं दुःखी भक्षयन्नुज्झितान् शवान् ॥ १४६॥ सिंहस्येव यतो मांसमाहारोऽस्याभवत्ततः । सिंहसौदासशब्देन भुवने ख्यातिमागतः ॥ १४७ ॥ दक्षिणापथमासाद्य प्राप्यानंबरसंश्रयं । श्रुत्वा धर्म बभूवासावणुव्रतधरो महान् ॥ १४८ ॥ ततो महापुरे राज्ञि मृते पुत्रविवर्जिते । स्कंधमारोपितः प्राप राज्यं राजद्विपेन सः ।। १४९ ।। व्यसर्जयच्च पुत्रस्य नतये दूत्तमूर्जितः । सोऽलिखत्तव गर्हस्य न नमामीति निर्भयः ॥ १५० ॥ तस्योपरि ततो याति सौदासे विषयोखिलः । प्रपलायितुमारेभे भक्षणत्रासकंपितः ॥ १५१ ॥ जित्वा तनयं युद्धे राज्ये न्यस्य पुनः कृती । महासंवेगसंपन्नः प्रविवेश तपोवनं ॥ १५२ ॥ ततो ब्रह्मरथो जातश्चतुर्वक्त्रस्ततोभवत् । तस्माद्धेमरथो जज्ञे जातः शतरथस्ततः ।। १५३ ।। उदपादि पृथुस्तस्मादजस्तस्मात्पयोरथः । बभूवेंद्ररथोऽमुष्माद्दिननाथ रथस्ततः ॥ १५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org