SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । द्वाविंशतितमं पर्व। मांधाता वीरसेनश्च प्रतिमन्युस्ततः क्रमात् । नाम्ना कमलबंधुश्च दीप्त्या कमलबांधवः ॥१५५॥ प्रतापेन रखेस्तुल्यः समस्तस्थितिकोविदः । रविमन्युश्च विज्ञेयो वसंततिलकस्तथा ॥ १५६ ॥ कुवेर दत्तनामा च कुंथुभक्तिश्च कीर्तिमान् । शरभद्विरदौ प्रोक्तौ रथशब्दोत्तरश्रुती ॥ १५७ ॥ मृगेशदमनाभिख्यो हिरण्यकशिपुस्तथा । पुंजस्थलककुस्थश्च रघुः परम विक्रमः ॥ १५८ ॥ इतीक्ष्वाकुकुलोद्भूताः कीर्तिता भुवनाधिपाः । भूरिशोऽत्र गता मोक्षं कृत्वा दैगंबरं व्रतं ॥१५९॥ आसीत्ततो विनीतायामनरण्यो महानृपः । अनरण्यः कृतो येन देशो वासयता जनं ॥१६० ॥ पृथिवीमत्यभिख्यास्य महादेवी महागुणा । कांतिमंडलमध्यस्था सर्वेद्रियसुखावहा ॥ १६१ ॥ द्वौ सुतावुदपत्स्यातां तस्यामुत्तमलक्षणौ । ज्येष्ठोऽनंतरथो ज्ञेयः ख्यातो दशरथोऽनुजः ॥१६२॥ सहस्ररस्मिसंज्ञस्य राज्ञो माहिष्मतीपतेः । अजयमनरण्येन साकमासीदनुत्तमं ॥ १६३ ॥ अन्योन्यगतिसंवृद्धप्रेमाणौ तौ नरोत्तमौ । सौधर्मेशानदेवेद्राविवास्थातां स्वधामनि ॥ १६४ ॥ रावणेन जितो युद्धे सहस्रांशुर्विबुद्धवान् । दीक्षा जैनेश्वरीमाप विभ्रत्संवेगमुन्नतं ॥ १६५ ॥ दूतात्तत्प्रेषिताज् ज्ञात्वा तवृत्तांतमशेषतः । मासजाते श्रियं न्यस्य नापी दशरथे भृशं ॥१६६॥ सकाशेऽभयसेनस्य निगथस्य महात्मनः । राजानंतरथेनामा प्रवव्राजातिनिस्पृहः ॥ १६७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy