________________
पद्मपुराणम् ।
૮
द्वाविंशतितमं पर्व ।
अनरण्यो ऽगमन्मोक्षमनं तस्यंदनो महीं । सर्वसंगविनिर्मुक्तो विजहार यथोचितं ॥ १६८ ॥ अत्यंत दुस्सहैर्योगी द्वाविंशतिपरीषहैः । न क्षोभितस्ततोनंतवीर्याख्यां स क्षितौ गतः ॥ १६९ ॥ वपुर्दशरथो लेभे नवयौवनभूषितं । शैलकूटमिवोत्तुगं नानाकुसुमशोभितं ॥ १७० ॥ अथामृतप्रभावायामुत्पन्ना वरयोषिति । दर्भस्थलपुरेशस्य चारुविभ्रमधारिणः ॥ १७१ ॥ राज्ञः सुकोशलाख्यस्य तनयामपराजितां । उपयेमे स रत्यापि स्त्रीगुणैरपराजितां ।। १७२ ।। पुरमस्ति महारम्यं नाम्ना कमलसंकुलं । सुबंधुस्तिलकस्तस्य राजा मित्रास्य भामिनी ॥ १७३ ॥ दुहिता कैकयी नाम तयोः कन्या गुणान्विता । मुंडमाला कृता यस्य नेत्रेदीवरमालया ॥ १७४॥ मित्राया जनिता यस्मात्सुचेष्टा रूपशालिनी । सुमित्रेति ततः ख्यातिं भुवने स समुपागता || महाराज सुतामन्यां प्रापासौ सुप्रभाश्रुतिं । लावण्यसंपदं बालां जनयंतीं श्रियस्त्रां ।। १७६ ।। स सम्यग्दर्शनं लेभे राज्यं च परमोदयं । आद्ये रत्नमतिस्तस्य चरमे तृणमुखी ।। १७७ ॥ अधोगतिर्वतोराद्यादत्यक्तादुपजायते । सम्यग्दर्शनयोगात्तु गतिरूर्द्धमसंशया ।। १७८ ।। ये भरताद्यैर्नृपतिभिरुर्द्धाः । कारितपूर्वा जिनवरवासाः ॥ भंगमुपेतान् क्वचिदपि रम्यान् । सोनयदेतानभिनवभावान् ।। १७९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org