Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
त्रयोविंशतितमं पर्व। सर्वेषु तेषु चैत्येषु जिनानां प्रतियातनाः । अकृत्रिममहाभासो मया पार्थिव वंद्यते ॥ १९ ॥ इत्युक्ते देवदेवेभ्यो नम इत्युद्गतध्वनिः । प्रणतं करयुग्मं च चक्रे दशरथः शिरः ॥ २० ॥ संज्ञया नारदेनाथ चोदिते जगतीपतिः । जनस्योत्सारणं चक्रे प्रतीहारेण सादरं ॥ २१ ॥ उपांशुनारदेनाथ जगदे कोशलाधिपः । शृणुष्वावहितो राजन् सद्भावं कथयामि ते ॥ २२ ॥ गतस्त्रिकूटशिखरं वंदारुरहमुत्सुकः । वंदितं शांतिभवनं मया तत्र मनोरमं ॥ २३ ॥ भवत्पुण्यानुभावेन मया तत्र प्रधारणं । श्रुतं विभीषणादीनां लंकानाथस्य मंत्रिणां ॥ २४ ॥ नैमित्तेन समादिष्टं तेन सागरबुद्धिना । भविता दशवक्त्रस्य मृत्युर्दाशरथिः किल ॥ २५ ॥ दुहिता जनकस्यापि हेतुत्वमुपयास्यति । इति श्रुत्वा विषण्णात्मा निश्चित्वाप विभीषणः ॥२६॥ जायते यावदेवास्य प्रजा दशरथस्य न । जनकस्य च तावत्तौ मारयामीति सादरः ॥ २७ ॥ पर्यटच्च चिरं क्षोणीं तच्चरेण निवेदितौ । भवंतो कामरूपेण स्थानरूपादिलक्षणैः ॥ २८ ॥ मुनिविसंभतस्तेन पृष्टोहमपि भो यते । कंचिद्दशरथं वेत्सि जनकं च क्षिताविति ॥ २९ ॥ अन्विष्य कथयामीति मया चोपात्तमुत्तरं । आकृतं दारुणं तस्य पश्यामि नरपुंगव ॥ ३० ॥ तत्ते यावदयं किंचिन्न करोति विभीषणः । निगृह्य तावदात्मानं क्वचित्तिष्ठ महीपते ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522