Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
४९३
त्रयोविंशतितमंपर्व। अयमेव च वृत्तांतो जनकस्यापि कल्पितः । उपर्युपरि हि प्रायश्चलंति विदुषां धियः ॥ ४५ ॥ मह्यां तौ क्षितिपौ नष्टौ भुवनस्थितिकोविदौ । आपत्काले यथेद्वौं समये जलदायिनां ॥४६॥ यौ पुरा वरनारीभिर्महाप्रासादवर्तिनौ । उदारभोगसंपन्नौ सेवितो मगधाधिप ॥ ४७॥ । इतराविव तौ कौचिदसहायौ नरोत्तमौ । चरणाभ्यां महीं कष्टं भ्रमंती धिग्तवस्थिति ॥ ४८ ॥ इति निश्चित्य जंतुभ्यो यो ददात्यभयं नरः । किं न तेन भवेद्दत्तं साधूनां धुरि तिष्ठता ॥४९॥ दृष्टौ तौ तत्र तत्रेति चरवर्गेण वेदितौ । अनुजेन दशास्यस्य प्रेषिता बधका भृशं ॥ ५० ॥ ते शस्रपाणयः क्रूरा दृष्टा गोचरविग्रहा । दिवा नक्तं च नगरी भ्रमंति चलचक्षुषः ॥ ५१ ॥ प्रासादं हीनसत्वास्ते प्रवेष्टुं न सहा यदा । चिरायते तदा यासीत्स्वयमेव विभीषणः ॥ ५२ ॥ अन्विष्य गीतशब्देन प्रविश्य गतविभ्रमः । ददर्शातःपुरांतस्थं व्यक्तं दशरथं विभीः ॥ ५३॥ विद्युद्विलसितो नाम चोदितस्तेन खेचरः । निकृत्य तस्य मूर्धानं स्वामिने दर्शयन् मुदा ॥५४॥ श्रुतांतःपुरजाक्रंदो निक्षिप्यैतच्छिरों बुधौ । जनकेऽपि तथा चक्रे निर्दयं स विचेष्टितं ॥५५॥ ततः कृतिनमात्मानं कृत्वा सोदरवत्सलः । ययौ विभीषणो लंकां प्रमोदपरिपूरितः ।। ५६ ॥ विप्रलापं परं कृत्वा विदित्वा पुस्तकर्म च । धृति दाशरथः प्राप परिवर्गः सविस्मयः ॥ ५७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522