Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 487
________________ पद्मपुराणम् । द्वाविंशतितम पर्व। अग्निज्वालाकुलागारे सुप्तः कश्चिन्नरो यथा । बोध्यते पटुनादेन समूहेन पयोमुचां ॥ ३८ ॥ तद्वत्संसारगेहेहं मृत्युजन्माग्निदीपिते । मोहनिद्रापरिष्वक्तो बोधितो भवता प्रभो ॥ ३९ ॥ प्रसादं कुरु मे दीक्षां प्रयच्छ स्वयमाश्रितां । मामप्युत्तरयामुष्माद्भवव्यसनसागरात् ॥ ४० ॥ ब्रवीति यावदेतावन्नतवक्त्रः सुकोशलः । तावत्सामंतलोकोऽस्य समस्तः समुपागतः॥४१॥ कृच्छ्रेण दधती गर्भमंतःपुरसमन्विता । प्राप्ता वसंतमालाख्या देवी चास्य विषादिनी ॥ ४२ ॥ तं दीक्षाभिमुखं ज्ञात्वा भृगझंकारकोमलः । अंतःपुरात्समुत्तस्थौ समं रुदितनिश्वनः ॥ ४३ ॥ स्याचेद्विचित्रमालाया गर्भोयं तनयस्ततः । राज्यमस्मै मया दत्तमिति संभाष्य निस्पृहः ॥४४॥ आशापाशं समुच्छिद्य निर्दह्य स्नेहपंजरं । कलत्रनिगई भित्वा त्यक्त्वा राज्यं तृणं यथा ॥४५॥ अलंकारान्समुत्सृज्य ग्रंथमंतर्बहिः स्थितं । पर्यकासनमास्थाय लुचित्वा केशसंचयं ॥ ४६ ॥ महाव्रतान्युपादाय गुरोर्गुरुविनिश्चयः । पित्रा साकं प्रशांतात्मा विजहार सुकोशलः ॥ ४७॥ कुन्निव वलिं पः पादारुणमरीचिभिः। संभ्राम्यन धरणी योग्यां विस्मितैरीक्षितो जनैः ४८ आर्तध्यायेन संपूर्णा सहदेवी मृता सती । तिर्यग्यौनौ समुत्पन्ना दुईष्टिः पापतत्परा ॥ ४९॥ तयोर्विहरतोर्युक्तं यत्रास्तमितशायिनोः । कृष्णीकुर्वन् दिशां चक्रमुपतस्थौ धनागमः ॥ ५० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522