________________
पद्मपुराणम् ।
द्वाविंशतितम पर्व। अग्निज्वालाकुलागारे सुप्तः कश्चिन्नरो यथा । बोध्यते पटुनादेन समूहेन पयोमुचां ॥ ३८ ॥ तद्वत्संसारगेहेहं मृत्युजन्माग्निदीपिते । मोहनिद्रापरिष्वक्तो बोधितो भवता प्रभो ॥ ३९ ॥ प्रसादं कुरु मे दीक्षां प्रयच्छ स्वयमाश्रितां । मामप्युत्तरयामुष्माद्भवव्यसनसागरात् ॥ ४० ॥ ब्रवीति यावदेतावन्नतवक्त्रः सुकोशलः । तावत्सामंतलोकोऽस्य समस्तः समुपागतः॥४१॥ कृच्छ्रेण दधती गर्भमंतःपुरसमन्विता । प्राप्ता वसंतमालाख्या देवी चास्य विषादिनी ॥ ४२ ॥ तं दीक्षाभिमुखं ज्ञात्वा भृगझंकारकोमलः । अंतःपुरात्समुत्तस्थौ समं रुदितनिश्वनः ॥ ४३ ॥ स्याचेद्विचित्रमालाया गर्भोयं तनयस्ततः । राज्यमस्मै मया दत्तमिति संभाष्य निस्पृहः ॥४४॥ आशापाशं समुच्छिद्य निर्दह्य स्नेहपंजरं । कलत्रनिगई भित्वा त्यक्त्वा राज्यं तृणं यथा ॥४५॥ अलंकारान्समुत्सृज्य ग्रंथमंतर्बहिः स्थितं । पर्यकासनमास्थाय लुचित्वा केशसंचयं ॥ ४६ ॥ महाव्रतान्युपादाय गुरोर्गुरुविनिश्चयः । पित्रा साकं प्रशांतात्मा विजहार सुकोशलः ॥ ४७॥ कुन्निव वलिं पः पादारुणमरीचिभिः। संभ्राम्यन धरणी योग्यां विस्मितैरीक्षितो जनैः ४८ आर्तध्यायेन संपूर्णा सहदेवी मृता सती । तिर्यग्यौनौ समुत्पन्ना दुईष्टिः पापतत्परा ॥ ४९॥ तयोर्विहरतोर्युक्तं यत्रास्तमितशायिनोः । कृष्णीकुर्वन् दिशां चक्रमुपतस्थौ धनागमः ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org