________________
पद्मपुराणम् ।
४७७
द्वाविंशतितम पर्व। प्रसादस्तेन नाथेन तदास्माकमकारि यः । स्मर्यमाणः शरीरं स दहत्येष निरंकुशः ॥ २५ ॥ धृतमेतदपुण्यैर्मे शरीरं दुःखभाजनं । वियोगे तस्य नाथस्य ध्रियते यदयोमयं ॥ २६ ॥ निग्रंथं भवतो दृष्ट्वा माभूनिर्वेदधीरिति । तपस्विनां प्रवेशोऽस्मिन्नगरेऽपि निवारितः ॥ २७ ॥ गोत्रे परंपरायातो धर्मोऽयं भवतां किल । राज्ये यत्तनयं न्यस्य तपोवननिषेवणं ॥ २८ ॥ किंनास्मादपि जानासि मंत्रिणां संप्रधारणं । न कदाचिदतो गेहाल्लभसे यद्विनिर्गमं ॥ २९ ॥ एतस्मात्कारणात्सर्व वाह्यालीभ्रमणादिकं । अमात्यैः कृतमत्रैव भवने नयशालिभिः ॥ ३० ॥ ततो निशम्य वृत्तांतं सकलं तनिवेदितं । अवतीर्य त्वरायुक्तः प्रासादाग्रात्सुकोशलः ॥ ३१ ॥ परिशिष्टातपत्रादिपृथिवीपतिलांछनः । पद्मकोमलकांतिभ्यां चरणाभ्यां श्रियान्वितः ॥ ३२ ॥ इतो वरमुनिदृष्टो भवद्भिरिति नादवान् । परमोत्कंठया युक्तः संप्रापयितुरंतिकं ॥ ३३ ॥ अस्यानुपदवीभूता महासंभ्रमसंगताः । छत्रधारादयः सर्वे व्याकुलीभूतचेतसः॥ ३४ ॥ निविष्टं प्रासुकोदारे प्रवरेऽमुं शिलातले । वाष्पाकुलविशालाक्षस्त्रिः परीत्य सुभावनः ॥ ३५ ॥ करयुग्मांतिकं कृत्वा मृर्द्धानं स्नेहनिर्भरः । ननाम पादयोर्जानुमस्तकस्पृष्टभूतलः ।। ३६ ॥ कृतांजलिरथोवाच विनयेन पुरस्थितः । ब्रीडामिव परिप्राप्तो मुनर्गेहादपाकृतेः ॥ ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org