________________
पद्मपुराणम् ।
४७६
द्वाविंशतितमं पर्व |
झूरैरित्युदितैः क्षिप्रं दुर्वाक्यजनिताननैः । दूरं निर्वासितो योगी वेशग्राहितपाणिभिः ॥ १२ ॥ अन्येऽपि लिंगिनः सर्वे पुरान्निर्वासितस्तदा । कुमारो धर्मशब्द माश्रौषीदिति नृपास्पदे ॥ १३ ॥ इति संतक्ष्यमाणं तं वावास्या मुनिपुंगवं । श्रुत्वा दृष्ट्वा च संजातप्रत्यग्रैौदारशोकिका ॥ १४ ॥ स्वामिनं प्रत्यभिज्ञाय भक्ता कीर्तिधरं चिरात् । धात्रीसौको शली दीर्घमरोदी-मुक्त कंठिका ||१५|| श्रुत्वा तां रुदनीमाशु समागत्य सुकोशलः । जगाद सांत्वयन् मातः केन तेऽपकृतं वद ||१६|| गर्भधारणमात्रेण जनन्या समनुष्ठितं । त्वत्पयोमयमेत्तत्तु शरीरं जातमीदृशं ॥ १७ ॥ सामे त्वं जननीतोऽपि परं गौरवमाश्रिता । वदापमानिता केन मृत्युवक्त्रं विविक्षुणा ॥ १८ ॥ अद्य मे त्वं जनन्यापि परिभूता भवेद्यदि । करोम्यविनयं तस्या जंतोरन्यस्य किं पुनः ॥ १९ ॥ ततस्तस्मै समाख्यातं वसंतलतया तया । कृच्छ्रेण विरलीकृत्य नेत्रांबुप्लवसंतति ॥ २० ॥ अभिषिच्य शिशुं राज्ये भवंतं यस्तपोवनं । प्रविष्टस्ते पिता भीतो भवव्यसनपंजरात् ॥ २१ ॥ भिक्षार्थमागतः सोद्य प्रविष्टो भवतो गृहं । जनन्यास्ते नियोगेन प्रतिहारैर्निराकृतः ।। २२ ।। दृष्ट्वा निर्धार्यमाणं तं जातशोकोरुवेलया । रुदितं मयका वत्स शोकं धर्तुमशक्तया ॥ २३ ॥ भवद्गौरवदृष्टायाः कुरुते कः पराभवं । मम कारणमेतत्तु कथितं रुदितस्य ते ।। २४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org