SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । જીવ Jain Education International द्वाविंशतितमं पर्व | अथ घोरतपोधारी धरातुल्यः क्षमः प्रभुः । मलकंचुकसंवीतवीतमानो महामनाः ॥ १ ॥ तपः शोषितसर्वांगो धीरो लुंचविभूषणः । प्रलंबित महाबाहुर्युगाध्वन्यस्तलोचनः ॥ २ ॥ स्वभावान्मत्तनागेंद्रं मंथरायणविभ्रमः निर्विकारः समाधानी विनीतो लोभवर्जितः ॥ ३ ॥ अनुसूत्रसमाचारो दयाविमलमानसः । स्नेहपंकविनिर्मुक्तः श्रमण श्रीसमन्वितः ॥ ४ ॥ गृहपंक्तिक्रमप्राप्तं भ्राम्यन्नात्मवरं गृहं । मुनिर्विवेश भिक्षार्थं चिरकालोपवासवान् ।। ५ ।। निरीक्ष्य सहदेवी तं गवाक्षनिहितेक्षणा । परमं क्रोधमायाता विस्फुरलोहितानना || 11 प्रतीहारगणानूचे कुंचितोष्ठी दुराशया । श्रमणो गृहभंजोऽयमाशु निर्वास्यातामिति ॥ ७ ॥ मुग्धः सर्वजनप्रीतः स्वभावमृदुमानसः । यावन्निरीक्ष्यते नैनं कुमारः सुकुमारकः ॥ ८ ॥ अन्यानपि यदीक्षे तु भवने नग्नमानवान् । निग्रहं वः करिष्यामि प्रतीहारा न संशयः ॥ ९ ॥ परित्यज्य दयामुक्तो गतोऽसौ शिशुपुत्रकं । यतः प्रभृति नामीषु तदारभ्य धृतिर्मम ॥ १० ॥ राज्यश्रियं द्विषत्येते महाशूरनिषेवितां । नयंत्यत्यंत निर्वेदं महोद्योगपरान्नरान् ॥ ११ ॥ द्वाविंशतितमं पर्व | For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy