________________
पद्मपुराणम् ।
४४
एकविंशतितम पर्व। ततः समुद्यदिवसप्रभूपम-श्चिरं स शक्यः कथमेव गोपितुं ॥ ___ निवेदितो दुर्विधिनातिदुःखिना । नृपाय केनापि नरेण निश्चितः ॥ १६१ ॥ तस्मै नरेंद्रो मुकुटादिदृष्टो । विभूषणं सर्वमदान्महात्मा ॥
घोषाख्यशाखानगरं च रम्यं । महाधनग्रामशतेन युक्तं ॥ १६२ ॥ पुत्रं समानाय्य च पक्षजातं । स्थितं महातेजसि मातुरंके । ___ अतिष्ठिपत्तुंगविभूतियुक्तं । निजे पदे पूजितसर्वलोकः ।। १६३ ।। जाते यतस्तत्र बभूव रम्या । पुरी विभूत्या किल कोशलाख्या ॥
सुकोशलख्यां स जगाम तस्मा-द्वालः समस्ते भुवने सुचेष्टः ॥ १६४ ॥ ततो विनिष्क्रम्य निवासचारका-दशिश्रियत्कीर्तिधरस्तपोवनं ॥
तपोभवेनैष रराज तेजसा । धनागमोन्मुक्ततनुर्यथा रविः ॥ १६५ ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्म-चरिते सुव्रतवज्रबाहुकीर्तिमाहात्म्यवर्णनं नाम एकविंशतितम पर्व ।
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org