________________
पद्मपुराणम् ।
४७३
न शोभतें गाकलाप एव । त्वया विनेदं भुवनं तथैव ॥ १५४ ॥ नाथ त्वयेमा विकला विनाथा । प्रजा विनश्यत्यखिला वराक्यः ॥
प्रजासु नष्टासु तथैव धर्मो । धर्मे विनष्टे वद किं न नष्टं ।। १५५ ॥ तस्माद्यथा ते जनकः प्रजाभ्यो । दत्वा भवतं परिपालनाय ||
तपोऽकरोन्निर्वृतिदानदत्तं । तथा भवान् रक्षतु गोत्रधर्म ।। १५६ ।। अथैवमुक्तः कुशलैरमात्यै - रवग्रहं कीर्तिधरश्चकार ॥
श्रुत्वा प्रजातं तनयं प्रपश्ये । ध्रुवं मुनीनां पदमप्युदारः ॥ १५७ ॥ ततः स शक्रोपमभोगवीर्यः । स्फीतां व्यवस्थामहतीं धरित्रीं ॥
मुखं शशास खिलभीतिमुक्तां । स भूरिकालं सुसमाहितात्मा ॥ १५८ ॥ चिरं ततः कीर्तिधरेण साकं । सुखं भजंती सहदेवदेवी ॥
क्रमेण संपूर्णगुणं प्रसूता । सुतं धरित्रीधरणे समर्थ ॥ १५९ ॥ समुत्सवस्तत्र कृतो न जाते । मागाद्धरित्रीपतिकर्णजाहं ॥
वार्तेति कांश्चिद्दिवसान्निगूढ़ः । कालः कथंचित्प्रसवस्य जातः ।। १६० ।।
Jain Education International
एकविंशतितमं पर्व |
For Private & Personal Use Only
www.jainelibrary.org