________________
४७२
पद्मपुराणम् ।
एकविंशतितमं पर्व। तारुण्यसूर्योप्ययमेवमेव । प्रणश्यति प्राप्तजरोपरागः ॥
जंतुर्वराको वरपाशबद्धो । मृत्योरवश्यं मुखमभ्युपैति ॥ १४८ ।। अनित्यमेतज्जगदेष मत्त्वा । सभासमेतानगदीदमात्यान् ॥
ससागरां रक्षत भो धरित्री । अहं प्रयाम्येष विमुक्तिमार्ग ॥ १४९ ॥ इत्युक्तमात्रे बुधबंधुपूर्णा । सभा विषादं प्रगता तमूचे ॥
राजंस्त्वमस्याः पतिरद्वितीयो । विराजसे सर्ववसुंधरायाः॥१५० ॥ त्यक्ता वशस्था धरणी च येयं । न राजते निर्जितशत्रुपक्षा ॥
नवे वयस्युन्नतवीर्यराज्यं । कुरुष्व तावत्सुरनाथतुल्यं ॥ १५१ ॥ जगाद राजा भववृक्षसंकटां । जरावियोगारतिवह्निदीपितां ॥
निरीक्ष्य दीर्घा व्यसनाटवीमिमां । मयं ममात्यंतमुरु प्रजायते ॥ १५२ ।। तनिश्चितं मंत्रिजनोऽवगत्य । विध्यातमंगारचयं महांतं ॥
आनाय्य मध्येस्य मरीचिरम्यं । वैडूर्यमस्थापयदत्युदारं ॥ १५३ ॥ पुनस्तदुवृत्त्य जगाद राजन् । यथामुना रत्नवरेण हीनः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org