________________
पद्मपुराणम् ।
४७९
द्वाविंशतितम पर्व। नभः पयोमुचां वातैरनुलिप्तमिवासितैः । वलाकाभिः क्वचिच्चक्रे कुमुदोषैरिवार्चनं ॥५१॥ कदंबस्थूलमुकुलः क्वणश्रृंगकदंबकः । पयोदकालराजस्य यशोगानमिवाकरोत् ॥ ५२ ॥ नीलांजनचर्याप्त जगत्तुंगनगैरिव । चंद्रसूर्यौ गतौ क्वापि तर्जिताविव गर्जितैः ॥ ५३॥ अच्छिन्नजलधाराभिर्युवतीव नभस्तलं । तोषादिवोत्तमान्मयां शव्यकंचुकमावृतं ॥ ५४ ॥ जनितं जलपूरेण समं सर्व नतोन्नतं । अतिवेगप्रवृत्तेन प्रस्खलस्येव चेतसा ॥ ५५ ॥ भूमौ गर्जति तोयौघा विहायसि घनाघनाः । अन्विष्यंत इवाराति निदाघसमयं द्रुतं ॥ ५६ ॥ कंदलैर्निविडैश्छिन्ना धरानिझरशोभिनः । अत्यंतजलभारेण पतिता जलदा इव ।। ५७ ॥ स्थलीदेशेषु दृश्यंते स्फुरंतः शक्रगोपगाः । घनचूर्णितसूर्यस्य खंडा इव महीं गताः ॥ ५८ ॥ चचार वैद्युतं तेजो दिक्षु सर्वासु सत्वरं । पूरितापूरितं देशं पश्यञ्चक्षुरिवांबरं ॥ ५९ ॥ मंडितं शक्रचापेन गगनं चित्रतेजसा । अत्यंतोन्नतियुक्तेन तोरणेनेव चारुणा ॥ ६० ॥ कूलद्वयनिपातिन्यो भीमावर्ता महाजवाः । वहंति कलुषा नद्यः स्वच्छंदप्रमदा इव ॥ ६१ ॥ घनाघनरवत्रस्ता हरिणी चकितेक्षणा । आलिलिंगुटुंतं स्तंभानार्यः प्रोषितभर्तृकाः ॥ ६२ ॥ गर्जितेनातिरौद्रेण जर्जरीकृतचेतनाः । प्रेषिता विहलीभूता प्रमदाशाहितेक्षणाः ॥ ६३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org