SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणस् । ४८० द्वाविंशतितम पर्व । अनुकंपापराः शांता निग्रंथमुनिपुंगवाः । प्रासुकस्थानमासाद्य चातुर्मासीव्रतं श्रिताः ॥ ६४ ॥ गृहीतं श्रावकैः शक्त्या नानानियमकारिभिः । दिग्विरामश्रितं साधुसेवातत्परमानसैः ॥६५॥ एवं महति संप्राप्ते समये जलदाकुले । निग्रंथौ तौ पितापुत्रौ यथोक्ताचारकारिणौ ।। ६६ ॥ वृक्षांधकारगंभीरं बहुब्यालसमाकुलं । गिरिपादमहादुर्ग रौद्राणामपि भीतिदं ॥ ६७ ॥ कंकगृध्रर्भगोमायुरवपूरितगह्वरं । अर्धदग्धशवस्थानं भीषणं विषमावनि ॥ ६८ ॥ शिरः कपालसंघातैः क्वचित्पांडुरितक्षतिः । वसातिविस्रगंधोग्रवेगवाहिसमीरणं ॥ ६९ ॥ साट्टहासभ्रमद्भीमरक्षोवेतालसंकुलं । तृणगुच्छलताजालपरिणद्धोरुपादपं ॥ ७० ॥ पृथुप्रेतवनं धीरा वर्षाढ्यं शुचिमानसौ । यदृच्छया परिप्राप्तौ विहरंतौ तपोधनौ ॥ ७१ ॥ चतुर्मासोपवासं तौ गृहीत्वा तन निस्पृहौ । वृक्षमूले स्थितौ यत्र संगमासुकितांभसि ॥ ७२ ॥ पर्यकासनयोगेन कायोत्सर्गेण जातुचित् । वीरासनादियोगेन निन्ये ताभ्यां धनागमः ॥७३॥ ततः शरदृतुः प्राप सोद्योगाखिलमानवः । प्रत्यूष इव निश्शेषजगदालोकपंडितः ॥ ७४॥ सितच्छायाघना क्वापि दृश्यंते गगनांगणे । विकासकाशसंघातसंकाशा मंदकंपिताः॥ ७५ ॥ पनागमविनिर्मुक्ते भाति खे पद्मबांधवः । गते सुदुःषमाकाले भव्यबंधुर्जिनो यथा ॥ ७६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy