SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । एकविंशतितम पर्व। परमोत्साहसंपन्नाः प्रणम्य मुनिपुंगवं । षडिंशतिरमा तेन राजपुत्राः प्रवव्रजुः ॥ १२५ ॥ तमुदंतं परिज्ञाय सोदरस्नेहकातरा । वहंती पुरुसंवेगमदीक्षिष्ट मनोदया ॥ १२६ ॥ सितांशुकपरिच्छन्नविशालस्तनमंडला । अल्पोदरी मलच्छन्ना जाता सातितपस्विनी ॥ १२७ ॥ विजयस्यंदिनो वार्ता विदित्वा वज्रवाहवीं । शोकार्दितो जगादैवं सभामध्यव्यवस्थितः १२८ चित्रं पश्यत मे नप्ता वयसि प्रथमे स्थितः । विषयेभ्यो विरक्तात्मा दीक्षां दैगंबरीमितः ॥१२९॥ मादृशोऽपि सुदुर्मोचैर्वर्षीयान् प्रवणीकृतः । भोगैर्यैस्ते कथं तेन कुमारेण विवर्जिताः ॥१३० ॥ अथवानुगृहीतोसौ भाग्यवान् मुक्तसंपदा। भोगान् यस्तृणवत्यक्त्वा शीतीभावे व्यवस्थितः१३१ मंदभाग्योधुना चेष्टां कां व्रजामि जरार्दितः । सुचिरं वंचितः पापैर्विपयैर्मुखसुंदरैः ॥ १३२ ॥ इंद्रनीलांशुसंघातसंकाशो योऽभवत्कथं । केशभारः स मे जातः काशराशिसमद्युतिः ॥ १३३ ॥ सितासितारुणच्छाये नेत्रे ये जनहारिणी । जाते संप्रति ते सुभ्रूवलीछन्नसुवर्मनी ॥ १३४ ॥ प्रभासमुज्वलः कायो योयमासीन्महाबलः । जातः संप्रत्यसौ वर्षाहतचित्रसमच्छविः॥ १३५ ॥ अर्थो धर्मश्च कामश्च त्रयस्ते तरुणोचिताः । जरापरीतकायस्य दुष्कराः प्राणधारिणः ॥१३६॥ धिग्मामचेतनं पापं दुराचारं प्रमादिनं । अलीकबांधवस्नेहसागरावर्तवर्तिनं ॥ १३७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy