________________
एकविंशतितमं पर्व।
उवाच वज्रवाहुस्तं मधुरं परिसांत्वयन् । कल्याणाशय कूपेहं पतनुत्तारितस्त्वया ॥ ११२ ॥ भवता सदृशं मित्रं नास्ति मे भुवनत्रये । जातस्य सुंदरावश्यं मृत्युः प्रेतस्य संभवः ॥ ११३ ॥ मृत्युजन्म घटीयंत्रमेतद्धाम्यत्यनारतं । विद्युत्तरंगदुष्टाहिरसनेभ्योऽपि चंचलं ॥ ११४ ॥ जगतो दुःखमनस्य किन्न पश्यसि जीवितं । स्वप्नभोगोपमाभोगा जीवितं बुद्वदोपमं ॥११५ ॥ संध्यारागोपमः स्नेहस्तारुण्यं कुसुमोपमं । परिहासोऽपि ते भद्र मम जातोऽमृतोपमः ॥ ११६ ।। परिहासेन किं पीतमौषधं हरते विषं । सत्वमेषोद्यमे बंधुर्यः सुश्रेयः प्रवृत्तये ॥ ११७॥ संसाराचारसक्तस्य प्रतिपन्नोऽसि हेतुतां । एषोहं प्रव्रजाम्यद्य कुरु त्वं स्वमनीषितं ॥ ११८ ॥ गुणसागरनामानं तमुपेत्य तपोधनं । प्रणम्य चरणानचे विनीतो रचितांजलिः ॥ ११९ ॥ स्वामिन् भवत्प्रसादेन पवित्रीकृतमानसः । अद्य निष्क्रमितुं भीमादिच्छामि भवतारकात् १२० ततः समाप्तयोगेन गुरुणेत्यनुमोदितः । महासंवेगसंपन्नस्त्यक्तवस्त्रविभूषणः ॥ १२१ ॥ पर्यकासनमास्थाय रभसान्वितमानसः । केशापनयनं कृत्वा पछवारुणपाणिनां ॥ १२२ ॥ जानानः प्रलघु देहमुल्लाघमिव तत्क्षणं । दीक्षा संचक्ष्य वैवाही मोक्षदीक्षामशिश्रियत् ॥१२३॥ त्यतरागमदद्वेषा जातसंवेगरंहसः । सुंदरप्रमुखा वीराः कुमारामारविभ्रमाः ॥ १२४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org