________________
पद्मपुराणम् ।
४६८
एकविंशतितमं पर्व ।
फलं पुष्कूलमेतेन लब्धं मानुषजन्मनः । अयं न वंचितः क्रूरैः कषायाख्यैमलिम्लुचैः ॥ ९९ ॥ अहं नु वेष्टितः पापः कर्मपाशैरनंतरं । आशीविषैर्महानागैर्यथा चंदनपादपः ॥ १०० ॥ प्रमत्तचेतसं पापं धिग्मां निवेतनोपमं । योहं निद्रामि भोगाद्रिमहाभृगुशिरस्थितः ॥ १०१ ॥ यदि नाम भजेये माममवस्थामस्य योगिनः । भवेयं लब्धलब्धव्यस्ततो मानुषजन्मनि ॥ १०२ ॥ इति चिंतयतस्तस्य राज्ञो निर्ग्रथपुंगवे । दृष्टिस्तंभनिबद्धेव बभूवात्यंतनिश्चला ॥ १०३ ॥ एवं निश्चलपक्ष्माणं निरीक्ष्योदयसुंदरः । कुर्वन्नर्म जगादैवं वज्रवाहुं कृतस्मितः ॥ १०४ ॥ चिरं निरीक्षितो देवस्त्वयैष मुनिपुंगवः । वृणीषे किमिमां दीक्षां रागवानत्र दृश्यसे ॥ १०५ ॥ वज्रवाहुरथोवोचत्कृतभावनिगूहनः । वर्तते कः पुनर्भावस्तवोदय निवेदय ।। १०६ ॥ अंतर्विरक्तमज्ञत्वात्तमाहोदयसुंदरः । परिहासानुरागेण दंतांशुच्छुरिताधरः ॥ १०७ ॥ दीक्षामिमां वृणीषे चेत्ततोहमपि ते सखा । अहो विराजसेऽत्यर्थ कुमारः श्रमणश्रिया ।। १०८ ।। अस्त्वेवमिति भाषित्वा युक्तो वैवाहभूषणैः । अवारोहदसौ नागादारोहद्धरणीधरं ॥ १०९ ॥ ततो वरांगनास्तारं रुरुदुरुरुलोचनाः । छिन्नमुक्तकलापाभस्थूलनेत्रांबुर्विदवः ॥ ११० ॥ व्यज्ञापयत्स वाष्पाक्षस्तमथोदयसुंदरः । प्रसीद देव नर्मेदं कृतं किमनुतिष्ठसि ॥ १११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org