________________
पद्मपुराणम् ।
४६७
एकविंशतितमं पर्व |
वीणाकाररम्येण भृंगाणां मंदशालिनां । नादेन श्रवणौ तस्य मानसेन समं हृतौ ॥ ८६ ॥ चूतोयं कर्णिकारोयं लोधोयं कुसुमान्वितः । प्रियालोयं पलाशोयं ज्वलत्पावकभासुरः ॥ ८७ ॥ व्रजंतीति क्रमेणास्य दृष्टिर्निश्चलपक्ष्मिका । संदिग्धमानुषाकारे पपात मुनिपुंगवे ॥ ८८ ॥ स्थाणुः स्याच्छ्रमणोयं नु शैलकूटमिदं भवेत् । इति राज्ञो वितर्कोऽभूत्कायोत्सर्गस्थिते मुनौ ८९ ततो नेदीयसं मार्ग प्रयातस्यास्य निश्चयः । उदयादिमहायोगी देहावंदनतत्परः ॥ ९० ॥ उच्चावच्चशिलाजालविषमेऽवस्थितं स्थिरं । दिवाकर कराश्लिष्टाम्लानवक्त्रसरोरुहं ॥ ९१ ॥ प्रलंबितमहाभोगिभोगभासुरसद्भुजं । शैलेंद्रतट संकाशपीवरोदारवक्षसं ॥ ९२ ॥ दिग्नागबंधनस्तंभस्थिरभास्वद्वरोरुकं । तपसापि कृशं कांत्या दृश्यमानं सुपीचरं ।। ९३ ।। नासिकाग्रनिविष्टातिसौम्यनिश्चलचक्षुषं । मुनिं ध्यायंत मैकाग्न्यं दृष्ट्ा राजेत्यचिंयत् ॥ ९४ ॥ अहो धन्योयमत्यंतं प्रशांतो मानवोत्तमः । यद्विहायाखिलं संगं तपस्यति मुमुक्षया ।। ९५ ।। विमुक्त्यानुगृहीतोयं कल्याणाभिनिविष्टधीः । परपीडानिवृत्तात्मा मुनिर्लक्ष्मीपरिष्कृतः ॥ ९६ ॥ समः सुहृदि शत्रौ च रत्नराशौ तृणे तथा । मानमत्सरनिर्मुक्तः सिद्ध्यालिंगनलालसः ॥ ९७ ॥ वशीकृतहृषीकात्मा निष्प्रकंपो गिरीद्रवत् । श्रेयो ध्यायति नीरागः कुशलस्थितमानसः ।। ९८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org