SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । एकविंशतितमं पर्व। जाते विंशतिसंख्याने वर्तमानजिनांतरे । देवागमनसंयुक्त विनीतायामुरौ पुरि ॥ ७३ ॥ विजयो नाम राजेंद्रो विजिताखिलशात्रवः । सौर्यप्रतापसंयुक्तः प्रजापालनपंडितः ।।७४ ॥ संभूतो हेमचूलिन्यां महादेव्या सुतेजसि । सुरेंद्रमन्युनामाभूत्स्नुस्तस्य महागुणः ॥ ७५ ॥ तस्य कीर्तिसमाख्यायां जायायां तनयद्वयं । चंद्रसूर्यसमच्छायं जातं गुणसमर्चितं ॥ ७६ ॥ वज्रवाहुस्तयोराधो द्वितीयश्च पुरंदरः । अन्वर्थनामयुक्तौ तौ रेमाते भुवने सुखं ॥ ७७ ॥ इभवाहननामासीत्तस्मिन् काले नराधिपः । रम्ये नागपुरे तस्य नाम्ना चूडामणिः प्रिया ।।७८॥ तयोर्दुहितरं चार्वी ख्यातां नाम्ना मनोदयां । वज्रबाहुकुमारोऽसौ लेभे श्लाध्यतमो नृणां ॥७९॥ तत्कन्यासोदरो नेतुमागादुदयसुंदरः। साध तेनोच्छिता श्रीमान्सितातपनिवारणः ॥८॥ कन्यां तां रूपतः ख्यातां सकले वसुधातले । मानसेनवहन्भूत्या प्रतस्थे श्वाशुरं पुरं ॥ ८१॥ अथास्य व्रजतो दृष्टिवसंतकुसुमाकुले । गिरौ वसंतसंज्ञाके निपपात मनोहरे ॥ ८२॥ यथा यथा समीपत्वं तस्य याति गिरेरसौ । तथा तथा परां लक्ष्मी पश्यन् हर्षमुपागमत् ॥८॥ पुष्पधूलीविमिश्रेण वायुना स मुगंधिना । समालिंग्यत मित्रेण संप्राप्तेन चिरादिव ॥ ८४ ॥ पुंस्कोकिलकलालापैर्जयशब्दमिवाकरोत् । वातकंपितवृक्षाग्रो वज्रवाहोर्धराधरः ॥ ८५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy