________________
पद्मपुराणम् ।
४६५
एकविंशतितमं पर्व ।
क्लिश्यंते द्रव्यनिर्मुक्ता त्रियंते वा लतासु च । पूर्वोपात्तायुषि क्षीणे हेतुना चोपसंहृते ॥ ६० ॥ नाना भवंति तिष्ठति निघ्नते शोचयति च । रुदंत्यदति वार्धते विवदंति पठंति च ।। ६१ ।। ध्यायंति यांति वल्गंति प्रभवंति वहंति च । गायंत्युपासतेऽश्नंति दरिद्रति नदंति च ।। ६२ ।। जयंति राति मुंचति राजंते विलसंति च । तुष्यंति शासति क्षांति स्पृहयंति हरंति च ।। ६३ ।। त्रति द्रांति सज्जंति द्रूयंते कूटयंति च । मार्गयंतेऽभिधावंते कुहयंते सृजति च ॥ ६४ ॥ शीडंति स्यति यच्छंति शीलयंति वसंति च । लुच्यंति भांति सीदंति क्रुध्यति विचलति च ६५ स्तुत्यंत्यर्चति वंचंति सात्वयंति विदंति च । मह्यंत्यवंति नृत्यंति स्नियंति विनयंति च ॥ ६६ ॥ नुदंत्यंच्छंति कति भृज्जंति विनमंति च । दीव्यंति दांति सीव्यंति जुह्वत्यंगति जाग्रति ॥ ६७ ॥ स्वपंति विभ्यतींगंति श्यंति यंति रुदंति च । प्रांति सुन्वंति रुन्वंति रुत्वंति विरुवंति च ॥ ६८ ॥ सीव्यंत्यवंति जीर्यति पिबंति रचयंति च । वृण्वते परिमृद्धंति विसृणन्ति पृणंति च ॥ ६९ ॥ मीमांसते जुगुप्सते कामयंते तरंति च । चिकित्स्यत्यनुमन्यंते वारयति गृणन्ति च ॥ ७० ॥ एवमादिक्रियाजालसंततव्याप्तमानसाः । शुभाशुभसमासक्ता व्यतिक्रामति मानवाः ॥ ७१ ॥ इति चित्रपटाकारचेष्टिताखिलमानवे । कालेऽवसर्पिणीनाम्नि प्रयाति विलयं शतैः ॥ ७२ ॥
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org