SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४६४ एकविंशतितमपर्व। भूयश्च बोधिमागत्य ततः कृत्वा मुनिर्मलं । गच्छंति परमं स्थानं यतो नागमनं पुनः ॥४७॥ अथासौ सुव्रतः कृत्वा चिरं राध्यं सुनिश्चलं । दक्षं तत्र विनिक्षिप्य प्रवृज्य प्राप निर्वृतिं ॥४८॥ दक्षात्समभवत्सूनुरिलावर्धनसंज्ञितः । ततः श्रीवर्धनो जज्ञे श्रीवृक्षाख्यस्ततोऽभवत् ॥ ४९ ॥ संजयंतो बभूवास्मादुदभूत्कुणिमस्ततः । महारथः पुलोमा चेत्येवमाद्या नरेश्वराः ॥५०॥ सहस्रशः समुत्पन्ना हरीणामन्वये शुभे । संप्रापुनिवृति केचित्केचिन्नाकनिवासितां ॥५१॥ एवं क्रमात्प्रयातेषु पार्थिवेषु च भूरिषु । नृपो वासवकेत्वाख्यःकुलेऽस्मिन्मैथिलोऽभवत् ।। ५२ ॥ विपुलेति महादेवी तस्यासीद्विपुलेक्षणा । परमश्रीरपि प्राप्ता या मध्येन दरिद्रतां ॥५३॥ तस्य जनकनामाभूत्तनयो नयकोविदः । हितं यः सततं चक्रे प्रजानां जनको यथा ॥ ५४॥ एवं जनकसंभूतिः कथिता ते नराधिप । श्रृणु संप्रति यद्वंशे नृपो दशरथोऽभवत् ॥ ५५ ॥ इक्ष्वाकूनां कुले रम्ये निवृत्ते नाभिजे जिने । भरते भास्करे सोमे व्यतीते वंशभूषणे ॥ ५६ ॥ संख्यातीतेन कालेन कुले तत्र निराधिपाः । अतिक्रामंति कुर्वतस्तपः परमदुश्चरं ॥ ५७॥ क्रीडंति भोगनिर्मनाः शुष्यंत्यकृतपुण्यकाः । लभंते कर्मणः स्वस्य विपाकमश्रुधारिणः ॥ ५८ ॥ चक्रवत्परिवर्तते व्यसनानि महोत्सवैः । शनैर्मायादयो दोषाः प्रयांति परिवर्द्धनं ॥ ५९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy