SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४६३ एकविंशतितमं पर्व । दंतपंक्तिसितच्छायाविशजालसमाकुलात् । नानाविभूषण ध्वानविहगाराव पूरितात् ॥ ३४ ॥ वलीतुरंगसंपृक्तात् स्वनचक्राद्दशोमितात् । राजहंसः सितः कीर्त्या दिव्य स्त्रीपद्मखंडतः ॥ ३५ ॥ देवमानवराजोढां शिविकामपरजितां । आरुह्य विपुलोद्यानं ययौ चूडामणिर्नृणां ॥ ३६ ॥ अवतीर्य ततो राज्ञां सहस्रैर्बहुभिः समं । दधौ जैनेश्वरी दीक्षां हरिवंशाविभूषणः || ३७ ॥ षष्ठोपवासयुक्ताय तस्मै राजगृहे ददौ । भक्त्या वृषभदत्ताख्यः परमान्नेन पारणं ॥ ३८ ॥ असमाचारवृत्त्यर्थं भुक्तिश्च विभुना कृता । प्राप्तो वृषभदत्तश्च पंचातिशयपूजनम् ॥ ३९ ॥ अधश्चंपकवृक्षस्य शुक्लध्यानमुपेयुषः । उत्पन्नं घातिकर्माते केवलं परमेष्ठिनः ॥ ४० ॥ ततो देवाः समागत्य सेंद्रा स्तुत्वा प्रणम्य च । संजातगणिनस्तस्माच्छुश्रुवुर्धर्ममुत्तमं ॥ ४१ ॥ सागारं च निरागारं बहुभेदं यथाविधि । श्रुत्वा ते विमलं धर्मं नत्वा जग्मुर्यथायथं ॥ ४२ ॥ मुनिसुव्रतनाथोऽपि धर्मतीर्थप्रवर्तनं । कृत्वा सुरासुरैर्नयैः स्तूयमानः प्रमोदिभिः ॥ ४३ ॥ गणनाथैर्महासत्वैर्गण पालनकारिभिः । अन्यैश्च साधुभिर्युक्तो विहृत्य वसुधातलं ॥ ४४ ॥ सम्मेदगिरिमूर्धानं समारुह्य चतुर्विधं । विधूय कर्म संप्राप लोकचूडामणिस्थितं ॥ ४५ ॥ मुनिसुव्रतमाहात्म्यमिदं येऽधीयते जनाः । शृण्वंति वा सुभावेन तेषां नश्यति दुष्कृतिः ॥ ४६ ॥ पद्मपुराणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy