________________
४६२
पद्मपुराणम् ।
एकविंशतितमं पर्व। तस्याः कमलवासिन्यो जिनमातुः प्रतिक्रियां । समस्तामाता देव्यश्चक्रुः सपरिवारिकाः ॥२१॥ जातमात्रमथो संतं जिनेंद्र क्षीरवारिणा । लोकपालैः समं शको मेरावस्नपयच्छ्यिा ॥ २२ ॥ संपूज्य भक्तितः स्तुत्वा प्रणम्य च सुराधिपः । मातुरंके पुनः प्रीत्या जिननाथमतिष्ठिपत् ॥२३॥ आसीद्गभेस्थिते यस्मिन् सुव्रता जननी यतः । विशेषेण ततः कीर्तिं गतोऽसौ सुव्रताख्यया २४ अंजनाद्रिप्रकाशोऽपि स जिनो देहतेजसा । जिगाय तिग्मगुं पूर्णनिशाकरनिभाननः ॥ २५ ॥ दधता परमं तेन भोगमिंद्रेण कल्पितं । अहमिंद्रसुखं दूरमधरीकृतमूर्जितं ॥ २६ ॥ हाहाहूहूश्रुती तस्य तुंबुरू नारदस्तथा । विश्वावसुश्व गायंति किंनर्योऽप्सरसो वराः ॥ २७ ॥ वीणावेण्वादिवादेन तत्कृतेन सुचारुणा । स्नानादिविधिमाप्नोति देवीजनितवर्तनः ॥ २८ ॥ स्मितलज्जितदंभेाप्रासादादिसुविभ्रमाः । यौवनेऽरमयद्रामाः सोभिरामो यथेप्सितं ॥ २९ ॥ शरदंभोदविलयं स दृष्ट्वा प्रतिबुद्धवान् । स्तुतो लोकांतिकैर्देवैः प्रवित्रजिषयान्वितः ॥ ३०॥ दत्वा सुव्रतसंज्ञाय राज्यं पुत्राय निस्पृहः । प्रणताशेषसामंतमंडलं सुखपालनं ॥ ३१॥ निर्गतः सौरभव्याप्तदशदिक्चक्रवालतः । दिव्यानुलेपनोदारसुकांतमकरंदतः ॥ ३२ ॥ सौरभाकृष्टसंभ्रांतभ्रमरीपृथुवृंदतः । हरिण्मणिविभाचक्रपालाशचयसंकुलात् ।। ३३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org