________________
४६१
पद्मपुराणम् ।
एकविंशतितमं पर्व। नाम्ना महागिरिस्तस्य सुतो हिमगिरिस्ततः । ततो वसुगिरिर्जातो बभूवेंद्रगिरिस्ततः ॥ ८ ॥ रत्नमालोथ संभूतो भूतदेवो महीधरः । इत्याद्याः शतशोतीता राजानो हरिवंशजाः॥९॥ वंशे तत्र महासत्वः सुमित्र इति विश्रुतः । बभूव परमो राजा कुशाग्राख्ये महापुरे ॥१०॥ त्रिदशेंद्रसमो भोगैः कात्या जितनिशाकरः । जितप्रभाकरो दीप्त्या प्रतापानतशात्रवः ॥११॥ पद्मावतीति जायास्य पद्मनेत्रा महाद्युतिः । शुभलक्षणसंपूर्णा पूर्णसर्वमनोरथा ॥ १२ ॥ सुप्तासौ भुवने रम्ये रात्रौ तल्पे मुखावहे । अद्राक्षीत्पश्चिमे यामे स्वप्नान् षोडश पूजितान्॥१३॥ द्विरदं शात्करं सिंहमभिषेकं श्रियस्तथा । दामनी शीतगुं भानुं झषौ कुंभं सरोजवत् ॥ १४ ॥ सागरं सिंहसंयुक्तमासनं रत्नचित्रितं । विमानं भवनं शुभ्रं रत्नराशि हुताशनं ॥ १५ ॥ ततो विस्मितचित्ता सा विबुद्धा बुद्धिशालिनी । कृत्वा यथोचितं याता विनीता भतुरंतिकं॥१६॥ कृतांजलिश्च पप्रच्छ स्वप्नार्थ न्यायवेदिनी । भद्रासने सुखासीना स्फुरद्वदनपंकजा ।। १७ ॥ दयितोऽकथयद्यावत्तस्यै स्वप्नफलं शुभं । अपप्तद्गगनातावदृष्टी रत्नप्रसूतिनी ॥ १८ ॥ तिस्रः कोट्योऽर्धकोटी च वसुनोऽस्य दिने दिने । भवने मुदितो यक्षो ववर्ष सुरपाया ॥ १९ ॥ मासाः पंचदशाऽखंडं पतंत्या वसुधारया । तया रत्नसुवर्णादिमयं तन्नगरं कृतं ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org